________________
२०४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૨૦ ज्ञानात्' साम्प्रतकालविषयतया (अल्पविषयज्ञापकात् श्रुतज्ञानं त्रिकालविषयतया महाविषयं), अनेकार्थपरिच्छेदीत्यर्थः, तस्य चैवंविधस्य श्रुतस्य महाविषयत्वात् कारणात् तास्तानर्थान् जीवादीनधिकृत्य प्रकरणसमाप्त्यपेक्षं विवक्षिताधिकारनिष्ठापेक्षं, किमित्याह-'अङ्गोपाङ्गनानात्व'मिति, एतदुक्तं भवति-यत्राचारादिरूपोऽर्थः परिसमाप्ति नीतस्तदिदमाचारादि, यत्रापरो विचित्रस्तदुपाङ्ग राजप्रसेनकीयादि, 'किञ्चान्यत्' इतश्चाङ्गोपाङ्गनानात्वं, 'सुखग्रहणे'त्यादि, सुखेन-अनायासेन पूर्वस्य ग्रहणं करिष्यति अङ्गानङ्गानां, सुखेन च गृहीतं धारयिष्यन्ति बुद्ध्या, सुखेन विज्ञानं तस्मिन्नर्थे शृण्वन्त उत्पादयिष्यन्तीति, सुखेनापोहंनिश्चयं करिष्यन्तीति, एवमेषोऽर्थः स्थित इति-सुखेन च प्रयोग-व्यापारं करिष्यन्ति प्रत्युपेक्षणादि कालभेदेन विदित्वेति । 'अन्यथे'त्यादि अन्यथेति-भेदेन रचनायाः अभावे हिः यस्मादनिबद्धम्-अरचितं कथमिति चेद् 'अङ्गोपाङ्गशः' अङ्गानि-आचारादीनि उपाङ्गानि-राजप्रसेनकीयौपपातिकादीनि ताभ्यां साङ्गोपाङ्गाभ्यां परिमितविशिष्टार्थाभिधायिभ्यां साङ्गोपाङ्गशः, अल्पत्वात् शसुः दृश्यः, समुद्रस्य प्रतरणम्उत्तरणं तेन समुद्रप्रतरणेन तुल्यं वर्त्तते समुद्रप्रतरणवत् 'दुरध्यवसानं स्यादिति दुःखेनाध्यवसीयते दुरध्यवसानं भवेत्, ‘एतेने'त्यादि एतेनाङ्गोपाङ्गभेदप्रयोजनेन सुखग्रहणादिना पूर्वाणि-दृष्टिपातान्तःपातीनि, पूर्वं प्रणयनात्, वस्तूनि पूर्वस्यैवांशोऽल्पः, वस्तुनः प्राभृतमल्पतरं, प्राभृतात् प्राभृतप्राभृतमल्पतरं, ततोऽध्ययनं ग्रन्थतोऽल्पतरं, ततः उद्देशकोऽल्पतरः, उद्देशकात् पदमित्यत आह- पदानि च व्याख्यातानि, एतदुक्तं भवति-सुखग्रहणादि यदेवाङ्गोपाङ्गादिकरणे फलं तदेवात्रापीति ।। 'अत्राहे'त्यादि, अत्रावसरे मतिश्रुतयोरुक्तस्वरूपयोस्तुल्यविषयत्वम्अभिन्नग्राह्यता, सा च वक्ष्यते इहैवोत्तरत्र, तस्य वक्ष्यमाणस्य सूत्रस्यैकदेशमुपन्यस्यति-'द्रव्येष्वसर्वपर्यायेष्वि'ति सर्वेषु धर्मादिद्रव्येष्वसर्व