SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૨૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ ૨૦૩ द्वादशाङ्गं गणिपिटकं ततोऽनन्यवृत्तिर्वा सङ्घस्तस्य, प्रवचनस्य प्रतिष्ठापनं फलं-प्रयोजनमस्य तत् प्रवचनप्रतिष्ठापनफलं तस्य, तीर्थं तदेव गणिपिटकं सङ्घः सम्यग्दर्शनादित्रयं वा तत् कुर्वन्ति-उपदिशन्ति ये ते तीर्थकरास्तान्नामयति-करोति यत्तीर्थकरनाम तस्यानुभावात्पश्चाद्विपाकात् इत्यर्थः, अतस्तस्मादनुभावाद् यद् उक्त-प्रतिपादितं सन् मातृकापदादिरूपेण भगवच्छिष्य'रिति तीर्थकरशिष्यैः, ते च सामान्यपुरुषा अपि भवन्त्यत आह-'अतिशयवद्भिः' विशिष्टशक्तियुक्तैः, एतैऽपि वैक्रिया अपि भवन्त्यत आह-'उत्तमातिशय' इत्यादि, उत्तमा अतिशया:प्रधाना अप्रमादादयः, वाग् विवक्षितार्थप्रतिपादिका, बुद्धिः बीजकोष्ठादिरूपा आभिः उत्तमातिशयवाग्बुद्धिभिः सम्पन्नैः-समन्वितैः, कैरित्याह-'गणधरै'रिति साध्वादिगणधारिभिः यद् दृब्धं-रचितं तदङ्गम्आचारादि, तदन्यकृतमङ्गबाह्यमित्येतदाह-'गणधरानन्तर्यादिभिस्त्वि'त्यादिना, गणधरा-गौतमादयः तेषामनन्तरे ये साधवस्तेऽनन्तर्यास्तेषां शिष्या जम्बूनामादयः ते आदिर्येषां प्रभवादीनां ते गणधरानन्तर्यादयस्तैः, पुनः किम्भूतैरित्याह-'अत्यन्तविशुद्धागमैः' अत्यन्तं निर्मलागमैः, त एव विशेष्यन्ते-'परमप्रकृष्टवाङ्मतिशक्तिभि'रिति वाग्-अग्राम्या, मति:औत्पत्तिक्यादिः चतुर्विधा शक्तिः-ग्रन्थकरणलब्धिः परमाः-उत्तमाः प्रकृष्टाः-तज्जातावपि श्रेष्ठाः वाङ्मतिशक्तयो येषां ते तथाविधास्तैः, 'आचार्यैरिति ज्ञानाद्याचारानुष्ठायिभिः, किमित्याह-'कालसंहननायुर्दोषादि'ति दुष्षमच्छेवट्ठवर्षशतजीवितापराभवात् अल्पशक्तीनां शिष्याणां, कालदोषात् ह्येते अल्पशक्तयो भवन्ति, अत एतदनुग्रहायउपकारायाल्पेनैव ग्रन्थेन तत्त्वमूहिष्यत इति मन्यमानैर्यत्प्रोक्तमनन्तरोदितगुणैराचार्यैर्दशवैकालिकादि तदङ्गबाह्यमिति, अत एव च मतेरेतन्महाविषयमित्याह-'सर्वज्ञेत्यादिना, सर्वज्ञप्रणीतत्त्वात्-तीर्थकरोपदिष्टत्वात् तथा आनन्त्यत्वाद् विज्ञेयस्य श्रुतज्ञानसम्बन्धिनः, किमित्याह-'मति
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy