________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૨૦
,
,
प्रामाण्यमिति ' मतिज्ञान' मिति मतिज्ञानमेवंविधं भवति, 'श्रुतज्ञानं त्वि'त्यादि, तुशब्दो मतिज्ञानादस्य भेदप्रदर्शनार्थ:, तथा चाह'त्रिकालविषय' मिति त्रिकालगोचरं मा भूद्विषयाभेद एवेत्याह‘उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति उत्पन्नो वर्त्तमानः विनष्ट:-अतिक्रान्तः अनुत्पन्नो-भावी अर्थो - रूपादिस्तस्य ग्राहकं - परिच्छेदकं, नोइन्द्रियनिमित्तविशिष्टपर्यालोचनात्मकत्वाच्छ्रुतस्य, आह-उत्पन्नाद्यर्थग्राहकमित्येतावदेव वाच्यं अस्य त्रिकालविषयाव्यभिचारित्वात्, न उत्पन्नादिभेदापेक्षया व्यभिचारासिद्धेः न हि प्रत्येकमुत्पन्नादि ज्ञानं त्रिकालगोचरमिति, अतस्तस्य कथञ्चिदेकत्वख्यापनपरं त्रिकालविषयग्रहणं। ‘अत्राहे’त्यादि, अत्र प्रस्तावे आह चोदकः गृह्णीमो-जानीमस्तत् पूर्वपृष्टं मतिज्ञानश्रुतज्ञानयोर्नानात्वं अथ श्रुतज्ञानस्य प्रस्तुतस्य द्विविधमनेकद्वादशविधमित्येवं भूयः किं कृतः प्रतिविशेषो - भेदः, सर्वं तद्रव्यश्रुतमोघतो भावश्रुतस्य कारणमित्यभिप्रायः सिद्धान्तवाद्याह 'अत्रोच्यते वक्तृविशेषादिति, वक्तारः तस्य ग्रन्थराशेर्निबन्धकास्तेषां विशेषो-भेदस्तस्माद् द्वैविध्यमिति द्विविधत्वं, एतदेव दर्शयति‘यद्भगवद्भि’रित्यादिना, भगवद्भिरित्यैश्वर्यादिगुणान्वितैः 'सर्वज्ञै' रिति सर्वद्रव्यपर्यायान् विशेषतो जानानैः, 'सर्वदर्शिभिरिति तान्येव सामान्यतः पश्यद्भिः, 'परमर्षिभि' रिति केवलिप्रधानैः 'अर्हद्भिरिति पूजां त्रिदशादीनामर्हद्भिर्यदुक्तमिति सम्बन्धः किमर्थं कृतकृत्यैरुक्तमित्याह'तथास्वाभाव्यादि'ति, तेषामेष एव स्वभावो यतस्ते सर्वाकारं (सर्वदैव ) परहितरता इति, अथवा न कृतकृत्या एवेति हेत्वन्तरमाह-'परमशुभस्य चे'त्यादिना, इह तीर्थकरनामकर्म विशेष्यं वर्त्तते, परमं च तच्छुभं च परमशुभं, नातोऽन्यत् शुभतरमस्ति, तस्मिन्नभ्युदितेऽन्या असातादिकाः प्रकृतयः उदिता अपि न स्वविपाकप्रकर्षं प्रदर्शयितुं क्षमाः, क्षीरपूरितकुम्भे निम्बरसबिन्दुवत्तस्य, एतदेव विशेष्यते - 'प्रवचने 'त्यादिना, प्रवचनं
૨૦૨
"
"