________________
સૂત્ર-૨૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
मूलादिगुणा यत्र स कल्पः, व्यवह्रियते प्रायश्चित्ताभवद्व्यवहारतयेति व्यवहारः, निशीथम् - अप्रकाशं सूत्रार्थाभ्यां यत्, ऋषिभिर्भाषितानि प्रत्येकबुद्धादिभि: कापिलीयादीनि एवमादि सर्वमङ्गबाह्यं दृश्यं, उक्तमङ्गबाह्यं, अङ्गप्रविष्टमभिधातुमाह-'अङ्गप्रविष्ट'मित्यादि, अङ्गप्रविष्टं यत् प्रागुपन्यस्तं तत् द्वादशविधं, 'तद्यथा - आचार' इत्यादि, आचारो ज्ञानादिर्यत्र कथ्यते स आचारः, सूत्रीकृताः अज्ञानिकादयो यत्र वादिनस्तत् सूत्रकृतं यत्रैकादीनि पर्यायान्तराणि वर्ण्यन्ते तत् स्थानं, सम्यग्वायनं वर्षधरनद्यादिपर्वतानां यत्र स समवायः, व्याख्याया जीवादिगताया यत्र नयद्वारेण प्ररूपणा क्रियते सा व्याख्याप्रज्ञप्तिः, ज्ञातादृष्टान्तास्तानुपादाय धर्मो यत्र कथ्यते तज्ज्ञातधर्मकथा, उपासकै:श्रावकैरेवं स्थातव्यमिति येष्वध्ययनेषु दशसु वर्ण्यते ता उपासकदशा:, अन्तकृत:-सिद्धाः ते यत्र ख्याप्यन्ते वर्द्धमानस्वामिनस्तीर्थे एतावन्त इत्येवं सर्वतीर्थकृतां ता अन्तकृद्दशाः, अनुत्तरोपपातिका देवा यासु ख्याप्यन्ते ता अनुत्तरोपपातिकदशाः, प्रश्नितस्य जीवादेर्यत्र प्रतिवचनं भगवता दत्तं तत् प्रश्नव्याकरणं, विपाकः - कर्म्मणामनुभवस्तं सूत्रयति यत्र तद्विपाकसूत्रं दृष्टीनाम् अज्ञानिकादीनां यत्र प्ररूपणा कृता स दृष्टिवादः, तासां वा यत्र पातः ॥ अत्रावसरे चोदक आह- ' मतिज्ञानश्रुतज्ञानयो' रनन्तरोदितयोः 'कः प्रतिविशेष: ?' परोक्षत्वाद्यविशेषादिति प्रष्टुरभिप्रायः, सिद्धान्तवाद्याह-'अत्रोच्यते' 'उत्पन्ने' त्यादि, उत्पन्न इति स्वेन रूपेण जातः, न तु उत्पद्यमानः, स चातीतो विनष्टोऽपि भवत्यत आह- 'अविनष्ट' इत्यप्रच्युतः अर्थो - रूपादिः तस्य ग्राहकं परिच्छेदकं, एतच्च कालान्तरस्थायिषूत्पन्नाविनष्टेष्वप्यर्थेषु व्यवहारतस्त्रिकालगोचरमपि सम्भवत्यत आह-'साम्प्रतकालविषय 'मिति वर्त्तमानकालविषयमित्यर्थः, स्मृतेरतीतविषयत्वान्न सर्वमेवंविधमिति चेत् ?, न, साम्प्रतकाल - गृहीतातिरिक्तस्य कस्यचिदस्मरणात्, पूर्वदृष्टस्य कालान्तरदर्शनवच्चास्याः
૨૦૧