SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૨૦ उपयोगापेक्षया श्रुतोपयोगो मतिनिमित्तमित्यर्थः अस्य च श्रुतज्ञानस्य प्रधानो हेतुः शब्दात्मकं श्रुतमिति, पर्यायशब्दैस्तदाह- 'श्रुत 'मित्यादि, श्रूयत इति श्रुतं - शब्दरूपं, तथा आप्तवचनं - तीर्थकरादिवचनं, तथा आगच्छत्याचार्यपरम्परयेत्यागमः, तथा उपदिश्यते-उच्चार्यत इत्युपदेशः, तथा ऐतिह्यमेव वृद्धाः स्मरन्तीति, तथा अभ्यस्यते निर्जरार्थिभिरित्याम्नायः, तथा प्रगतं प्रशस्तं प्रधानमादौ वा वचनं प्रवचनं क्षीणरागादिवचनं जिनवचनमिति, ‘इत्यनर्थान्तर' मिति एवमेभिः पर्यायशब्दैः द्वादशाङ्गं गणिपिटकमभिधीयत इतियावत्, द्व्यनेकद्वादशभेदमित्येनमवयवं व्याचिख्यासुराह-‘तदेतदि’त्यादि, तदेतच्छ्रुतमनन्तरोक्तं 'द्विविधं'द्विप्रकारं, कथमित्याह-'अङ्गबाह्य'मित्याचारादिश्रुतपुरुषावयवबाह्यं, 'अङ्गप्रविष्टं चे'ति तदन्तर्गतं चेत्यर्थः, तत् पुनर्द्विविधं सत् अनेकविधम्अनेकप्रकारं द्वादशप्रकारं च, कथमित्याह - 'यथासङ्ख्यं' यथोपन्यस्तमितियावत्, तदेव प्रकटयन्नाह - 'अङ्गबाह्य' मित्यादि, अङ्गबाह्यमनन्तरोपन्यस्तमनेकविधं, तद्यथा - 'सामायिक' मित्यादि, समभावः सामायिकंचारित्रं, तत् प्रतिपादकमध्ययनमपि सामायिकमिति १, चतुर्विंशतीनां तीर्थकृतां अप्यन्येषां च स्तवाभिधायी चतुर्विंशतिस्तवः २, वन्दनं कस्मै कार्यं कस्मै च नेति यत्र वर्ण्यते तद्वन्दनं ३, असंयमस्थानं प्राप्तस्य यतेस्तस्मात् प्रतिनिवर्त्तनं यत्र वर्ण्यते तत् प्रतिक्रमणं ४, कृतस्य पापस्य यत्र कायपरित्यागेन क्रियमाणेन विशुद्धिराख्यायते स कायव्युत्सर्ग: ५, प्रत्याख्यानं यत्र मूलगुणा उत्तरगुणाश्च धारणीया इत्ययमर्थः ख्याप्यते तत् प्रत्याख्यानं ६, दश विकाले पुत्रहिताय स्थापितान्यध्ययनानि दशवैकालिकं, आचारात् परतः पूर्वकाले यस्मादेतानि पठितवन्तो यतयस्तेनोत्तराध्ययनानि, पूर्वेभ्य आत्मीयसङ्घसन्ततिहिताय स्थापितान्यध्ययनानि दशा उच्यन्ते, दशा इति चावस्थावचनः शब्दः, काचित् प्रतिविशिष्टावस्था यतीनां यासु वर्ण्यते ता दशा इति, कल्पव्यवहारौ कल्पन्ते - भिद्यन्ते ૨૦૦ - —
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy