SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૨૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ ૨૦૫ पर्यायेषु मतिश्रुतयोः प्रवृत्तिः निबन्ध इति, तस्माद्विषयादेकरूपादेकत्वमेव मतिश्रुतयोर्भवति, न भेद इति, 'अत्रोच्यते, उक्तमेतदिति भेदप्रयोजनं पुरस्तात्, तदेवोद्घट्टयति-'साम्प्रते'त्यादिना, वर्तमानकालविषयंवर्तमानमर्थमालम्बते मतिज्ञानं, श्रुतज्ञानं पुनस्त्रिकालविषयं-त्रैकालिकमर्थमालम्बते, विशुद्धतरं च-व्यवहितविप्रकृष्टानेकसूक्ष्मार्थग्राहित्वाद्विशुद्धतरमुच्यते, 'किञ्चान्य'दिति, तथा अयमपरस्तयोविशेषःमतिज्ञानमिन्द्रियाणि-स्पर्शनादीनि अनिन्द्रियं-मन ओघज्ञानं च निमित्तमुररीकृत्य प्रवर्त्तते, 'आत्मनो' जीवस्य 'ज्ञस्वाभाव्यादिति जानातीति ज्ञः ज्ञत्वमेव स्वाभाव्यं ज्ञस्वाभाव्यं-आत्मरूपता तस्मात् ज्ञस्वाभाव्यादिति, 'पारिणामिक'मिति सर्वकालवर्ति, न कदाचित् संसारे पर्यटत् एतद् भ्रष्टं, यतो निगोदजीवानामपि अक्षरस्यानन्तभागो नित्योद्घाट इत्यागमः, अतः पारिणामिकं, 'श्रुतज्ञानं त्वि'त्यादि श्रुतज्ञानं पुनःवं, यतः 'तत्पूर्वक मिति, मतिपूर्वकं, मतिपूर्वकत्वेऽपि न तन्मात्रनिमित्तमित्याह-'आप्तोपदेशाद्भवती'ति अर्हदादिवचनादुपजायते इति । आह-'अत्राह गृह्णीमो मतिज्ञानश्रुतज्ञानयोर्नानात्व'मित्यनेन अवधारितमेतत्, पुनरयुक्तमत्राह इत्यादि चोदनं उक्तनिर्वचनं ?, उच्यते, नायुक्तं, क्वचित् कस्मिंश्चिदधिगतेऽपि हि निमित्तान्तरतः आशङ्काभावे शिष्यस्य परिहार एव स्मारणीयोऽधिकतरं वा किञ्चिद्वाच्यं, न तु कुपितव्यमिति विधिप्रदर्शनार्थं अत्राहेत्यादि ॥१-२०॥ अर्थ- “श्रुतज्ञानम्" त्याहथी श्रुतनुं वि१२९॥ ४३ छ. श्रुतिः श्रुतं એવી વ્યુત્પત્તિથી શ્રોત્ર આદિ નિમિત્તથી શબ્દના અર્થનું જ્ઞાન તે શ્રુતજ્ઞાન छ. श्रूयते इति श्रुतम् थे. व्युत्पत्तिन। अनुसार २०६ १३५ ॥४. શ્રુતજ્ઞાનનું કારણ હોવાથી ઉપચારથી શ્રુત કહેવાય છે. શ્રુતજ્ઞાન મતિજ્ઞાનપૂર્વક થવાનું કારણ श्रुतशान भतिज्ञानपूर्व थाय छे म छ- मतिज्ञानपूर्वकं भवति=
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy