SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ૧૯૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ टीका- (न चक्षुरनिन्द्रियाभ्यां) व्यञ्जनावग्रह इति सूत्रसमुदायार्थः, अवयवार्थं त्वाह भाष्यकार:-'चक्षुषे'त्यादि चक्षुषा उपकरणेन्द्रियाख्येन सह नोइन्द्रियेण च मनओघज्ञानरूपेण व्यञ्जनावग्रहो न भवति, एतदुक्तं भवति- ते रूपाकारपरिणताः पुद्गलाश्चिन्त्यमानाश्च वस्तुविशेषाः न ताभ्यां संश्लिष्य विज्ञानं जनयन्ति, अपि तु योग्यदेशावस्थिताश्चक्षुषा गृह्यन्ते, प्रणिधानसचिवाश्च मनसा चिन्त्यन्ते, संश्लेषाभ्युपगमे तु अक्ष्यञ्जनादेः ग्रहणं, विषयकृतौ वाऽनुग्रहोपघातौ दुर्निवारौ, नायनरश्मिविधानं मनोनिर्गमनं चान्यत्र निराकृतमिति नेहाभिधीयते, अतश्चक्षुरनिन्द्रियाभ्यां व्यञ्जनावग्रहो न भवति, शेषैर्भवतीत्याह-'चतुर्भि'रित्यादि, चतुर्भिरिन्द्रियैः-स्पर्शनरसनघ्राणश्रोत्रैः शेषैः-उपर्युक्तवर्जेर्भवति व्यञ्जनावग्रह इति, अत्र चतुर्भिरिन्द्रियैरित्यनेन सङ्ख्याभ्युपगमतोऽधिकेन्द्रियव्यवच्छेदः, उपसंहरन्नाह-‘एव'मित्यादि, एवमेतत् तदिति लक्षणविधानाभ्यां यन्निरूपितं मतिज्ञानं, तस्य पुनः संपिण्ड्य भेदान् कथयति'द्विविध'मित्यादि, द्विविधमिति इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च, चतुर्विधमवग्रहादिभेदतः, अष्टाविंशतिविधमिति स्पर्शनादीनां मनःपर्यवसानानां षण्णामेकैकस्य चत्वारो भेदा अवग्रहादयः, तत् समुदिताः सर्वे चतुर्विंशतिरूपा जाताः, तन्मध्ये चक्षुर्मनोवर्जः स्पर्शनादीनां यो व्यञ्जनावग्रहश्चतुर्भेदः स प्रक्षिप्तः ततोऽष्टाविंशतिविधं भवति, अष्टषष्ट्युत्तरशतविधमिति तस्या एवाष्टाविंशतेरेकैको भेदः षड्विधो भवति, बह्वादिभेदेन, अतोऽष्टषष्ट्युत्तरशतविधं भवति, षट्त्रिंशत्त्रिशतभेदमिति, तस्या अष्टाविंशतेरकैको भेदो द्वादशधा भवति सेतरबबादिभेदेन ॥१-१९॥ ટીકાર્થ–ચક્ષુ અને મન વડે વ્યંજનાવગ્રહ થતો નથી એ પ્રમાણે સૂત્રનો सहित अर्थ छे. अवयवार्थने तो माध्य।२ 5 छे- 'चक्षुषा' इत्यादि,
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy