________________
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧ यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ॥१-२३॥ ऋजुविपुलमती मनःपर्यायः ॥१-२४॥ विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥१-२५॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः ॥१-२६॥ मतिश्रुतयोनिबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु ॥१-२७॥ रूपिष्ववधेः ॥१-२८॥ तदनन्तभागे मनःपर्यायस्य ॥१-२९॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥१-३०॥ एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्य: ॥१-३१॥ 'मतिश्रुताविभङ्गा विपर्ययश्च ॥१-३२॥ सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवत् ॥१-३३॥ नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दा नयाः ॥१-३४॥ आद्यशब्दौ द्वित्रिभेदौ ॥१-३५॥
१. प्रसिद्ध सूत्र मतिश्रुतावधयो विपर्ययश्च मे छ.