________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
પહેલો અધ્યાય *
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१-१॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥१-२॥
तन्निसर्गादधिगमाद्वा ॥१-३॥ जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥१-४॥
नामस्थापनाद्रव्यभावतस्तन्यासः ॥१-५॥
प्रमाणनयैरधिगमः ॥१-६॥ निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ १-७॥
सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥१-८॥ मतिश्रुतावधिमन: पर्यायकेवलानि ज्ञानं ॥१-९ ॥
तत् प्रमाणे ॥१- १०॥
आद्ये परोक्षम् ॥१-११॥
प्रत्यक्षमन्यद् ॥१-१२॥
मति: स्मृति: संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥१-१३॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥१- १४॥
अवग्रहेहापायधारणा ॥१- १५ ॥ बहुबहुविधक्षिप्रानिश्रितानुक्तध्रुवाणां सेतराणाम् ॥१- १६ ॥
अर्थस्य ॥१- १७ ॥
व्यञ्जनस्यावग्रहः ॥१- १८ ॥ न चक्षुरनिन्द्रियाभ्यां ॥१-१९॥
श्रुतं मतिपूर्वं द्व्यनेकद्वादशभेदम् ॥१-२०॥
19
द्विविधोऽवधिः ॥१-२१॥
भवप्रत्ययो नारकदेवानाम् ॥१-२२॥