________________
૧૪૮ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧
सूत्रविषयमिन्द्रियानपेक्षं मनःप्रणिधानवीर्यकमवधिज्ञानं, अवधिश्च तज्ज्ञानं च तदवधिज्ञानं, 'मनःपर्यायज्ञान'मिति मनसः पर्यायाः मनःपर्यायाःजीवादिज्ञेयालोचनप्रकाराः, परगताः मन्यमानमनोद्रव्यधर्मा इत्यर्थः, साक्षात्कारेण तेषु तेषां वा ज्ञानं मनःपर्यायज्ञानमिति, 'केवलज्ञान'मिति केवलमित्येकं-स्वभेदरहितं शुद्धं वा-सकलावरणशून्यं, सकलं वाआदित एव सम्पूर्णं असाधारणं वा-मत्यादिविकलं अनन्तं वासर्वद्रव्यभावपरिच्छेदि ज्ञानं केवलज्ञानं, स्वाम्यादिसाधादादौ मतिश्रुतोपन्यासः, अत्रापि मतिभेदत्वात् मतिपूर्वकत्वाच्च श्रुतस्यादौ मतेः, कालविपर्ययादिसाधाच्च तदन्ववधेः, छद्मस्थविषयादिसाधाच्च तदनु मनःपर्यायस्य, उत्तमत्वादिभिर्वाऽन्ते केवलस्येत्युपन्यासानुपूर्वीप्रयोजनं, तथा चोक्तम्
"जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाइं । तब्भावे सेसाणि अ तेणादीए मतिसुआई ॥१॥ कालविवज्जयसामित्तलाहसामण्णओऽवही तत्तो । माणसमेत्तो छउमत्थविसयभावादिसामण्णा ॥२॥ अंते केवलमुत्तमजइसामित्तावसाणलाभाओ ॥" (विशे. ८६-८७॥) इत्यादि, 'इत्येतदिति, इतिरियत्तायां, एतावदेव, नान्यदस्ति, एतदित्यवयवप्रविभागेन यदाख्यातं मूलम्-आद्यं विधानं-भेदः मूलं च तद्विधानं च मूलविधानं तेन मूलविधानेन-मूलविधानतः ‘पञ्चविध मित्यादि ज्ञेयपरिच्छेदि ज्ञानं, एतदुक्तं भवति-मौलान् भेदानङ्गीकृत्य पञ्चविधमेव भवति, अथ किमन्ये एषां पञ्चानां प्रभेदाः सन्ति उत नेति ?, सन्तीत्युच्यते, 'प्रभेदास्त्वस्ये'त्यादि, प्रभेदा-अंशाः अवयवाः अस्यपञ्चविधस्योपरिष्टाद् वक्ष्यन्ते, मूलभेदास्तु न, कथितत्वादिति, मतिज्ञानस्यावग्रहादयः श्रुतस्याङ्गानङ्गप्रविष्टादयः अवधिज्ञानस्य भवप्रत्ययादयः मनःपर्यायज्ञानस्य ऋजुमत्यादयः, केवलज्ञानस्य न सन्त्येवेति ॥१-९॥