________________
૧૨૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
सूत्र-८ पृच्छति-'सम्यग्दर्शनस्य को विरहकाल' इति, सम्यग्दर्शनं प्राप्य पुनश्चोज्झित्वा यावन्न पुनः सम्यग्दर्शनमासादयति स विरहकालःसम्यग्दर्शनेन शून्यः कालः कियानिति, औपशमिकक्षायोपशमिके निश्रित्य निर्णयवाक्यं प्रवृत्तं-'एकं जीवं प्रती'त्यादि, एको जन्तुरौपशमिकं क्षायोपशमिकं वा प्राप्य उज्झित्वा पुनः कश्चिन्मुहूर्तस्यान्तर्लभते, कश्चित्तु अनन्तेन कालेन लभते, स चानन्तः काल एवमाख्यायते-उत्कृष्टतोऽपार्द्धः पुद्गलपरावर्त्तः, पुद्गलपरावर्तो नाम यदा जगति यावन्तः परमाणवस्ते औदारिकादितया सर्वे परिभुक्ता भवन्ति, स पुद्गलपरावतः औदारिकवैक्रियतैजसभाषाप्राणापानमनः कर्मभेदात् सप्तधा, एतत्समुदायस्यार्द्ध गृह्यते किञ्चिन्न्यूनं, एतत् प्रतिपादयितुं कथं शक्यते इति चेदुपार्द्धपुद्गलपरावर्त इत्यनेन, उच्यते, 'समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्वपि प्रवर्तन्त' इतिन्यायात्, अयं चार्द्धशब्दः न समप्रविभागवचनः, किञ्चिन्यूनाभिधायित्वाच्च पुंल्लिङ्गः, उपगतोऽर्द्ध उपार्द्धःकिञ्चिन्यून इति प्रादिसमासः, 'नानाजीवा'निति सर्वजीवान् नास्त्यन्तरं, विदेहादिषु सर्वकालमवस्थानादिति, क्षायिकस्य त्वनपगमान्नास्त्यन्तरं ६।
द्वारान्तराभिधित्सयाऽऽह-'भाव' इति, यैषा रुचिर्जीवस्य जिनवचनश्रद्धायिनी सा कस्मिन् भावे औपशमिकादीनां समवतरति इति प्रश्नयति-'सम्यग्दर्शन'मित्यादिना, सम्यग्दर्शनमित्यविशिष्टां रुचि क्षयादिरूपां त्रिविधामपि जिज्ञासते क्व केति, तथा च प्रतिवचनमपि भविष्यति-त्रिषु भावेष्विति, 'औपशमिकादीनाम्'उक्तलक्षणानां 'कतमो भावः' कतमाऽवस्थेतियावत्, सूरिस्तु हेयभावनिरसिसिषया आदेयं त्रिष्वित्यनेन कथयति, औदयिकं-गतिकषायादिरूपं पारिणामिकं च भव्यत्वादिलक्षणं विहाय अन्ये त्रयः क्षायिकादयस्तेषु भावेषु भवति, औदयिकपारिणामिकयोर्गत्यादिभव्यत्वाद्यवधारणात्तत् न तयोः समस्ति, अनादित्वाच्च, 'त्रिषु' इति सूच्यते त्रिषु भवति, नौदयिकपारिणामिकयोरिति ।