________________
सूत्र-८ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૧૧૯ दर्शनसप्तकस्य, उभय्यामप्यवस्थायां सम्यग्दर्शनं द्रष्टव्यं, उभय्यामपि त्ववस्थायां सम्यग्दृष्टिव्यपदेशो नास्ति, 'तत् केवलिनो नास्ती'त्यादि, तदिति-सम्यग्दर्शनं सद्दव्यापाययोगजनितव्यपदेशं केवलिनोऽतीन्द्रियदर्शनत्वात् न समस्ति, अतो न सम्यग्दर्शनी केवली, कस्तहि ?, आह'सम्यग्दृष्टिस्तु केवली'ति, तानि च बुद्ध्या आदाय अपायसद्व्याणि तत्र केवलिनि सम्यग्दर्शनिव्यपदेशो निषिध्यते, तैस्तु विना यदि सम्यग्दर्शनिव्यपदेशः कल्प्यते भावसाधनार्थोऽविशिष्ट इतिकृत्वा तदा नास्ति निषेध इति, तुशब्दः अमुमेवार्थमवद्योतयति, एवं च कृत्वा पूर्वप्रश्नेष्वपि सुघटं भाष्यं भवति ।
द्वारान्तरं छुपति-'काल' इति, यदेतत् पूर्वके द्वारे निरूपितं सम्यग्दर्शनं तत् कियन्तं कालं भवतीति प्रश्नयति, ननु च स्थितिद्वारेऽप्येतदेव पृष्टमुक्तं च, किमर्थं पुनः पिष्टपेषणं क्रियत? इति, उच्यते, न कालः स्थितिमन्तरेण कश्चिदस्तीत्यस्यार्थस्य ख्यापनार्थं, तथा वर्तनादीन्येव काललिङ्गानि पठन्ति, अथवा एकजीवाश्रयणेन नानाजीवसमाश्रयणेन च नास्ति स्थितिद्वारे साक्षादभिधानमित्यतो युज्यते प्रश्नः, तथा च 'पुव्वभणिअं तु जं एत्थ, भण्णती तत्थे'त्यादि, अतस्तत् सम्यग्दर्शनमेकजीवाङ्गीकरणेन नानाजीवाङ्गीकरणेन च परीक्ष्यं, एतदुक्तं भवति-एकेन प्राप्तं सत् कियन्तं कालमनुपाल्यत इति, नानाजीवैश्च कियन्तं कालं धार्यत इति परीक्ष्यम्, 'एकं जीवं प्रती'त्यादि, पूर्व भावित एव ग्रन्थ इति, स्थितिद्वारे नानाजीवान् प्रति सर्वाद्धा-सर्वकालं, महाविदेहादिक्षेत्रमाश्रित्याव्यवच्छेदात्, इयं तु स्थितिः क्षायोपशमिकस्य चिन्तिता, औपशमिकस्य तु यथासम्भवं अन्तर्मुहूर्तप्रमाणेति, क्षायिकस्य तु सर्वदाऽवस्थानम् ५।
अतोऽनन्तरं अन्तरद्वारं स्पृशति-'अन्तरं' इत्यनेन, सम्यग्दर्शनं प्राप्य पुनश्चोज्झित्वा मिथ्यात्वदलिकोदयात् पुनः कियता कालेन लप्स्यत इति