________________
૧૧૮ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
सूत्र-८ स्पर्शनमाकाशप्रदेशैः पर्यन्तवर्तिभिः सह यः स्पर्शस्तत् स्पर्शनं, अस्मिन् द्वारे पृच्छ्यते-सम्यग्दर्शनेन किं स्पृष्टमित्यनेन, अत्रापि सम्यग्दर्शनशब्दः सामान्यवाची दृश्यः, एकं वाऽङ्गीकृत्य प्रवृत्त इति मन्तव्यं, उत्तरं 'लोकस्यासङ्ख्येयभागः स्पृष्ट' इत्येकानेकप्रश्नानुरोधेन ज्ञेयं, यः पुनः समुद्घातप्रतिपन्नः चतुर्थसमयवर्त्तिभवस्थकेवली तेन किं स्पृष्टं लोकस्येति, उच्यते-'सम्यग्दृष्टिना तु सर्वलोक' इति, यतोऽभिहितं"लोकव्यापी चतुर्थे तु" तुशब्दोऽवधारणे, सम्यग्दृष्टिनैव समुद्घातं गतेनैव समस्तलोकः स्पृश्यत इति, एतस्मिन् व्याख्याने चोदकोऽचूचुदत्सम्यग्दृष्टिसम्यग्दर्शनशब्दयोर्युत्पत्तौ क्रियमाणायां भावे कारके नास्त्यर्थभेद इति भवाश्चाह-सम्यग्दर्शनेन लोकासङ्ख्येयभागः स्पृष्टः, सम्यग्दृष्टिना तु सर्वलोक इति, तत् नूनं भवता कश्चिदर्थभेदः परिकल्पित इत्यतः प्रश्नेनोपक्रमते-'सम्यग्दृष्टिसम्यग्दर्शनयोः को विशेष इति ?, सूरिराह-अत्र 'उच्यते', 'अपायसद्रव्ये त्यादि, अपायो-निश्चयज्ञानं मतिज्ञानांशः सद्रव्याणि पुनः शोभनानि प्रशस्तत्वात् विद्यमानानि वा द्रव्याणि सद्रव्याणि-मिथ्यादर्शनदलिकानि अध्यवसायविशोधितानि सम्यग्दर्शनतया आपादितपरिणामानि, अपायश्च सद्रव्याणि च अपायसव्व्याणि तेषां भावः अपायसद्रव्यता, इत्थम्भूतलक्षणे तृतीया, यावत् सोऽपायः सम्भवति यावद् वा तानि सम्भवन्त्येषाऽपायसद्व्यता, तया सम्यग्दर्शनं, अपाययुक्तानि सव्व्याणीति विनाशाशङ्कानिराचिकीर्षया सुहृद्भूत्वा सूरिराचष्टे-'अपाय आभिनिबोधिकं' तृतीयो भेदः आभिनिबोधिकस्य निश्चयात्मकः प्रसिद्धः तेन योगः तद्योगः तस्मात्, तेनापायेन योग इति वोच्यते, यतः सम्यग्दर्शनपुद्गलेषु सत्सु अपगतेषु च भवतीति, व्यापी स इत्यर्थः, तद्योगात् सम्यग्दर्शनम्, एतेनापायेन यावदस्ति सम्बन्ध इति, तेन च सम्बन्धः सत्सु च सद्रव्येष्वक्षीणदर्शनसप्तकस्य, असत्सु च सद्रव्येषु क्षीण