SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सूत्र-८ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ ૧૧૭ तर्हि ?, असङ्ख्येयाः सम्यग्दर्शनिन इति, क्षयसम्यग्दृष्टीन् सिद्धान् केवलिनश्च विरहय्य शेषाः संसारवर्त्तिनो यावन्तः क्षयादिसम्यग्दर्शनिनस्ते निर्दिश्यन्ते असङ्ख्येयानि सम्यग्दर्शनानीत्यनेन, ये तर्हि केवलिनः सिद्धाश्च ते सर्वे कियन्त इत्याह-'सम्यग्दृष्टयस्त्वनन्ता' इति, भवस्थकेवलिनः सिद्धांश्चाङ्गीकृत्योक्तं सम्यग्दृष्टयस्त्वनन्ता इति २। द्वारान्तरस्पर्शनेनाह-'क्षेत्र'-क्षियन्ति-निवसन्ति यत्र जीवादिद्रव्याणि तत् क्षेत्रम्-आकाशं, ये एतेऽसङ्ख्येयतया निर्धारिता अनन्ततया च एभिः पुनः कियदाकाशं व्याप्तमिति संशये सति पृच्छति-'सम्यग्दर्शनं कियति क्षेत्रे' ननु च सम्यग्दर्शनमेतेन प्रच्छ्यते, निर्णयोऽपि तस्यैव, सम्यग्दृष्टयस्तु न चोद्यन्ते न निर्णीयन्त इत्ययुक्तम्, उच्यते, इहायं सम्यग्दर्शनशब्दः भावसाधनः, सम्यग्दृष्टिः सम्यग्दर्शनं, स चाप्युभयोर्वाचकोऽभ्युपगन्तव्यः, अपायसद्व्यसम्यग्दर्शनिनस्तद्वियुतस्य च सिद्धभवस्थकेवलाख्यस्य, निर्णयवाक्येऽप्येवमेव दृश्यं, अथवा सम्यग्दर्शनिषु निर्मातेषु सम्यग्दृष्टयोऽप्यनेनैव रूपेण ग्रहीष्यन्त इति सम्यग्दर्शनिनः प्रश्नयति, अथवा एकं जीवमुद्दिश्यायं प्रकृतः प्रश्नः, एकत्रावधृतक्षेत्रेऽन्यत्राप्युपमानात् तथा प्रतिपत्स्येऽहमिति पृच्छतिसम्यग्दर्शनं कियति क्षेत्रे इति, एकस्मिश्च पृच्छ्यमाने सम्यग्दर्शनं कियति क्षेत्रे इत्येकवचनमपि सुघटं भवति, सूरिराह-'लोकस्यासङ्ख्येयभाग'मिति, यदैकः पृष्टः एकस्य चोत्तरं तदा कोऽर्थः ?, योऽहं सम्यग्दर्शनी सोऽहं कियति आधारे स्थितः ?, पृष्टे उत्तरं-लोकस्यासङ्ख्येयभागे, धर्माधर्मद्वयपरिच्छिन्न आकाशदेशो जीवाजीवाधारः क्षेत्रं लोकः, तस्यासङ्ख्येयभागे त्वं स्थितो, यतोऽसङ्ख्येयप्रदेशो जीवोऽसङ्ख्येयभाग एव अवगाहते, सर्वस्य लोकस्य बुद्ध्याऽसङ्ख्येयभागखण्डकल्पितस्य य एकोऽसङ्ख्येयभागस्तत्र स्थित इति, अथापि सर्वानेवाङ्गीकृत्य प्रश्नस्तथाप्यसङ्ख्येयभागे पूर्वस्मादभ्यधिकतरे लोकस्य सर्वे वर्तन्त इति युक्तमुत्तरं ३।
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy