SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ૧૧૬ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૮ चारित्री पूर्वप्रतिपन्न एव, अचारित्रः पूर्वप्रतिपन्नः प्रतिपद्यमानश्च स्यात् ११॥ आहारकेषु द्वयं, अनाहारकः पूर्वप्रतिपन्नः, न तु प्रतिपद्यमानकोऽन्तरगतौ सम्भवति १२। उपयोग इति साकारोपयोगोपयुक्तः प्रतिपद्यते उतानाकारोपयोगोपयुक्तः इति, उच्यते, साकारोपयोगोपयुक्तः प्रतिपद्यते पूर्वप्रतिपन्नश्च, अनाकारोपयोगोपयुक्तस्तु पूर्वप्रतिपन्नः स्यात्, न तु प्रतिपद्यमानो, यतः सर्वाः किल लब्धयः साकारोपयोगोपयुक्तस्य भवन्तीति पारमर्षवचनप्रामाण्यात् १३। एतेषु त्रयोदशस्वनुयोगद्वारेषु- व्याख्यानाङ्गेषु 'यथासम्भव'मिति यत्र न सम्भवति यत्र च सम्भवति, अथवा क्षायिकादि सम्यग्दर्शनं यत्र सम्भवति तत्र वाच्यं, 'सद्भूतपदार्थस्य' सम्यग्दर्शनपदस्य 'प्ररूपणा' व्याख्या (कर्तव्या-)उन्नेया, भाषकपरीत्तादयस्तु नादृता भाष्यकारेण, प्रायस्तेषामुपात्तानुयोगद्वारान्तर्गतत्वात् इति, यतो भाषकः पञ्चेन्द्रियेष्ववतरति, परीत्तोऽपि कायेषु, पर्याप्तस्तेष्वेव, सूक्ष्मसंज्ञिभवचरमाश्च तेष्वेवातो नाहता इति १॥ द्वितीयद्वारं छुपन्नाह-'सङ्ख्ये'ति, सङ्ख्या -इयत्ता, सा चैका गणितव्यवहारानुवर्तिनी द्व्यादिका शीर्षप्रहेलिकान्ता, गणितविषयातीता असङ्ख्येया जघन्यमध्यमोत्कृष्टसंज्ञिताऽपरा, तदतिक्रमेण व्यवस्थिता अनन्ता, सापि जघन्यादिभेदत्रयानुगता अनुयोगद्वारात् विस्तरार्थिनाऽधिगमनीया, य एते सम्यग्दर्शनसमन्विताः सत्त्वा गत्यादिषु ते कियन्त इति तद्वन्त इह पृच्छयन्ते, उक्तं चेदं पुरस्ताद्, यतः पृच्छति- “कियत् सम्यग्दर्शनं' किं परिमाणास्ते सम्यग्दर्शनिन इत्यर्थः, स्वयमेवोद्घट्टयति सङ्ख्याभिज्ञः सन् 'किं सङ्ख्येय'मित्यादि, किं सङ्ख्येयं सम्यग्दर्शनराशिमभ्युपगच्छामः उतासङ्ख्येयमथानन्तमिति ?, एवं पृष्टे आह'उच्यते असङ्ख्येयानि सम्यग्दर्शनानि न सङ्ख्येया नाप्यनन्ताः, किं
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy