SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ૧૧૫ सूत्र-८ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ रिन्द्रियेषु असंज्ञिपञ्चेन्द्रियेषु च पूर्वप्रतिपन्ना भाज्याः सास्वादनसम्यक्त्वं प्रति, प्रतिपद्यमानास्तु न सन्त्येव, संज्ञिपञ्चेन्द्रियेषु द्वयमप्यस्ति २॥ ___ कायान् पृथिव्यादीनाश्रित्य सामान्येन द्वयमप्यस्ति, विशेषेण धरणिजलानलानिलतरुषु द्वयं न सम्भवत्येव, द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियेषु त्रसेषु पूर्वप्रतिपन्नाः स्युः, नाधुना प्रतिपत्स्यन्ते, संक्षिपञ्चेन्द्रियत्रसकाये द्वयमपि स्यात् ३। __ योगेषु मनोवाक्कायेषु सामान्येन द्वयमपि, काययोगभाजां पृथिव्यादीनां तरुपर्यन्तानां न द्वयं, कायवाग्योगयुजां द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां पूर्वप्रतिपन्नाः स्युः, न तु प्रतिपद्यन्त इति, मनोवाक्काययोगानां द्वयं ४। अनन्तानुबन्धिनामुदये न द्वयं, शेषकषायोदये द्वयं ५।। वेदत्रयसमन्वितानां द्वयमस्ति सामान्येन, विशेषेणापि स्त्रीवेदे द्वयं, पुरुषवेदे द्वयं, नपुंसकवेदे एकेन्द्रियाणामसंज्ञिपञ्चेन्द्रियपर्यवसानानां पूर्वप्रतिपन्नाः केचित् सन्ति, न प्रतिपद्यमानाः, संज्ञिपञ्चेन्द्रियनपुंसकेषु द्वयं नारकतिर्यक्मनुष्याख्येषु ६। लेश्यासूपरितनीषु द्वयं, आद्यासु प्रतिपन्नाः स्युर्न तु प्रतिपद्यन्ते ७। किं सम्यग्दृष्टिः प्रतिपद्यते मिथ्यादृष्टिः प्रतिपद्यत इति ?, अत्र निश्चयस्य सम्यग्दृष्टिः प्रतिपद्यते, अभूत् नोत्पद्यत इति, शशविषाणादिवत्, व्यवहारस्य मिथ्यादृष्टिः, प्रतिपत्तेरभूतभावविषयत्वात्, ‘असत् कारणे कार्य'मिति निदर्शनात् ८। एवं ज्ञानी निश्चयस्य, अज्ञानी व्यवहारनयस्य ९। चक्षुर्दर्शनिषु द्वयं, मक्षिकाद्यसंज्ञिषु पूर्वप्रतिपन्नाः स्युः, न तु प्रतिपद्यमानकाः, संज्ञिपञ्चेन्द्रियचक्षुर्दर्शनिषु द्वयं, अचक्षुर्दर्शनिषु पृथिव्यादिषु पञ्चसु द्वयं नास्ति, शेषेषु द्वित्रिचतुरसंशिष्वचक्षुर्दर्शनिषु पूर्वप्रतिपन्नाः स्युन तु प्रतिपद्यन्ते, संज्ञिपञ्चेन्द्रियाचक्षुर्दर्शनिषु द्वयं १०।
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy