SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ૧૧૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ सूत्र-८ 'विकल्पशः' इत्यादि व्याख्यातमेव, 'कथमितिचेदि'त्यनेन पराभिप्रायमाशङ्कते, केन प्रकारेण एभिर्विस्तरेणाधिगमः क्रियत इत्येवं त्वं मन्येथाः, उच्यते यथा क्रियते विस्तराधिगम इति, 'सदि'त्यनेन सद्द्वारं परामृशति, कथं चैतस्य द्वारस्योत्थानं यथा शङ्कते परः-किमस्ति नास्तीत्येवं, अन्यथा सत्त्वे निर्माते अयुक्तमेवैतत्कथनमिति, अत आशङ्कावाक्यं दर्शयति-'सम्यग्दर्शनं किमस्ति नास्ती'ति, किमुक्तं भवति?-सम्यग्दर्शनशब्दवाच्योऽर्थः किमस्ति नास्तीति, संशयश्चायं, शब्दो ह्यसत्यपि बाह्येऽर्थे प्रवर्त्तमानो दृष्टः शशविषाणादौ, सत्यपि च घटादाविति, अतः किमयं सम्यग्दर्शनशब्दः सति बाह्येऽर्थे प्रवृत्तः उतासतीति प्रश्नयति, सूरिराह-'अस्ति' विद्यते, सम्यग्दर्शनशब्दवाच्योऽर्थो घटादिशब्दवाच्यवत्, आप्तोक्तः प्रशमादिलिङ्गगम्यश्च, पुनराशङ्कते-'क्वास्तीति चेत्', आशङ्कासम्भवश्च गुणः सम्यग्दर्शनं, गुणश्च गुणिपरतन्त्र इति, सूरिराह-'उच्यते', अजीवेषु तावन्नास्ति धर्मास्तिकायादिषु नास्ति सम्यग्दर्शनं, जीवगुणत्वात्तस्य, यच्चोक्त कस्येति स्वामित्वचिन्तायामजीवस्य प्रतिमादेः सम्यग्दर्शनमिति तदुपचारात्, इह तु मुख्यचिन्ताप्रक्रम इति न तदङ्गीक्रियते, अथ जीवेषु का वार्तेत्यत आह'जीवेषु तु भाज्यं' तुशब्द एवकारार्थे, भाज्यमेव, नावश्यंभावि सर्वेषु, भजनां च कथयति-'तद्यथा गतीन्द्रिये'त्यादिना, गत्यादीनि चान्यत्रावश्यकादौ प्रपञ्चेनोक्तानि, अशून्यार्थं तु किञ्चिद् दर्श्यते गत्यादिषु पूर्वप्रतिपन्नाः प्रतिपद्यमानाश्च सम्यक्त्वं चिन्त्यन्ते, तत्र नरकप्रभृतिगतिषु चतसृष्वपि पूर्वप्रतिपन्नाः प्रतिपद्यमानाश्च जीवाः सन्ति, नरकगतौ क्षायिकक्षायोपशमिके स्यातां, तिर्यग्गतावप्येते, मनुष्यगतौ त्रीण्यपि क्षायिकादीनि सन्ति, देवगतौ क्षायिकक्षायोपशमिके भवेतां १॥ इन्द्रियाणि सामान्येनाङ्गीकृत्य सन्ति पूर्वप्रतिपन्नाः प्रतिपद्यमानाश्च विकल्पशः, एकेन्द्रियेषु न पूर्वप्रतिपन्नाः न प्रतिपद्यमानकाः, द्वित्रिचतु
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy