________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૧૨૧
द्वारान्तरं स्पृशति 'अल्पबहुत्व' मित्यनेन, 'अत्र' एतस्मिन् त्रिषु भावेष्विति व्याख्यायते, आहाज्ञः - एषां क्षायिकादीनां 'सम्यग्दर्शनानां' त्रिषु क्षायिकादिषु परिणामेषु वर्तमानानां किं तुल्यसङ्ख्यत्वमुतान्यथेति, आश्रयभेदेन वा अल्पबहुत्वचिन्ता, आह- 'अस्त्यल्पबहुत्व' मिति अल्पबहुभावः, किञ्चिदल्पमत्रास्ति किञ्चिच्च बह्विति, कथं भावनीयम् ?, 'उच्यते सर्वस्तोकमौपशमिकं' यत ईदृशी परिणतिं श्रेण्यारोहादिस्वभावां न बहवः सत्त्वाः संप्राप्नुवन्तीत्यागमः, 'ततः क्षायिकमसङ्घयेयगुणं' तत: - औपशमिकात् क्षायिकमिति च, अत्रायं विशेष: प्रेक्ष्य:- छद्मस्थानां श्रेणिकादीनां यत् क्षायिकं तत् गृह्यते, अपायसद्भावात्, छद्मस्थवर्त्तिनश्च औपशमिकस्यावधितयोपात्तत्वात् तत इत्यनेन अवधिमतापि तादृशेन भाव्यं, तत औपशमिकात् क्षायिकं छद्मस्थस्वामिकमसङ्ख्येयगुणमिति, असङ्ख्येयगुणमिति योऽसावौपशमिको राशिः सोऽसङ्ख्येयेन राशिना गुण्यते, औपशमिकाद् बहुतरमितियावत्, 'ततोऽपि' क्षायिकात् 'क्षायोपशमिकं' भवत्यसङ्ख्येयगुणं, सर्वगतिषु बहुस्वाम्याधारत्वात्, असङ्ख्येयगुणमिति च योऽसौ क्षायिकराशिः सोऽसङ्ख्येयेन गुण्यते, अतः क्षायिकाद् बहुतरमास्त इतियावत्, यत्तर्हि क्षायिकं केवल्याधारं तत् कियद् ?, उच्यते, सर्वकेवलिनामानन्त्यादनन्तगुणं केवल्याधारमेतद् दृश्यं इत्यत आह-'सम्यग्दृष्टयस्त्वनन्ता' इति, केवलिनोऽनन्ता इत्यर्थः, अतस्तद्वर्त्त्यप्यनन्तमेव इति: द्वारसमाप्तिसूचकः । अथ किं सम्यग्दर्शनस्यैव निर्देशादिसदादिभिद्वरैिरधिगमः क्रियते ? उत ज्ञानादीनामपि ?, ज्ञानादीनामपि, किन्तु एकत्र सम्यग्दर्शने योजना कृता, अन्यत्राप्येवं दृश्येत्यतिदिशति एवं सर्वभावाना' मित्यादिना, 'एव' मिति यथा सम्यग्दर्शनस्य तथा सर्वभावानां ज्ञानादीनां नामस्थापनादिभी रचनां कृत्वा प्रमाणनयनिर्देशादिसदादिभिः परीक्षाधिगमः कार्य इति, यत् प्रस्तुतं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति, तत्र यत् सम्यग्दर्शने
सूत्र