________________
सूत्र-७
८९
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧ सकलदोषरहिताऽऽविर्भाव्यते, क्षयोपशमेनापि चान्यादृश्येव, तथोपशमेनेति, अतः त्रिविधं सम्यग्दर्शनं यत् कार्य क्षयादिहेतुभिः, के पुनस्ते हेतवः ? इति, उच्यते, क्षयादयः, कस्य च क्षयादयोऽत आह'तदावरणीयस्ये'त्यादि, तस्य-सम्यग्दर्शनस्यावरणीयम्-आच्छादकं शशिलाञ्छनस्येवाभ्रादि तस्य, 'कर्मण'इति पृथग्भूतस्य कर्मणो, न वासनादेः, एतदेव स्पष्टयन्नाह-'दर्शनमोहस्ये'ति, अनन्तानुबन्ध्यादेदर्शनसप्तकस्येत्यर्थः, चशब्दः शेषप्रकृत्यानुगुण्यसमुच्चयार्थः, अवधारणार्थ इत्यन्ये, दर्शनमोहस्यैव न पठन्त्येवान्ये, ततश्च तदावरणीयस्य कर्मणो दर्शनमोहस्य 'क्षयादिभ्य' इति क्षयक्षयोपशमोपशमेभ्यस्तद्भवति, 'तद्यथे'त्युदाहरणोपन्यासार्थः, 'क्षयसम्यग्दर्शन'मित्यादि, तदावरणीयस्य कर्मणः क्षयादेरुपजातत्वादेवमभिधीयत इति भावः, 'अत्र चे'त्यादि, अत्रेति एषु क्षयादिसम्यग्दर्शनेषु यथा कार्यभेदोऽभ्युपगतः एवं प्रकर्षभेदोऽभ्युपगन्तव्य इति कथयत्येतच्चशब्दः, तं च प्रकर्ष दर्शयन्नाह-'औपशमिके'त्यादि, पूर्वं च क्षयसम्यग्दर्शनं प्रधानत्वादुपन्यस्येदानी प्रकर्षस्य निदर्श्यत्वादन्ते तदुपन्यस्यति, उपशमेन-उदयविघातरूपेण निर्वृत्तमौपशमिकं, क्षयेण-परिशाटरूपेणोपशमेन च निर्वृत्तं क्षायोपशमिकं, क्षयेण निर्वृत्तं क्षायिकम्, अत एषामौपशमिकादीनामिमां रचनामाश्रित्य परस्परस्य विशुद्धिप्रकर्षो-निर्मलता स्वच्छता तत्त्वपरिच्छेदितेत्यर्थः, औपशमिकं हि सम्यग्दर्शनं सर्वमलीमसमल्पकालत्वात्, भूयश्च मिथ्यात्वगमात्, यतोऽन्तर्मुहूर्त्तमात्रं भवेद्, यदि च कालं तत्रस्थो न करोति, एवं सति मिथ्यादर्शनमेव प्रतिपद्यत इत्यागमः, तस्माच्चौपशमिकात् क्षायोपशमिकं सम्यग्दर्शनं विशुद्धतरं, बहुकालावस्थायित्वाद्, यत उत्कृष्टेन षट्षष्टिः सागरोपमाणि साधिकानि तदुक्तम्, अत एव च तस्य वस्तुपरिच्छेदस्पष्टग्रहणसामर्थ्यमनुमातव्यम्, आगमाच्चास्मात्, ततश्च क्षायिकं विशुद्धतमं, सर्वकालावस्थायित्वात् स्पष्टवस्तुपरिच्छेदाच्चेति ॥१-७॥