SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ८८ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ सूत्र-७ सिद्धश्च सर्वकर्मवियुत इति, यतः सादिरप्यसौ रुचिः न च कदाचिदपैष्यतीति, सम्यग्दृष्टिः सादिरपर्यवसानेति चेत्ययं स्त्रीलिङ्गनिर्देशः भवस्थकेवलिनः सयोगस्यायोगस्य च सिद्धस्य च तस्य रुचेरनन्यत्वख्यापनार्थो, नासौ ततोऽन्येति, अथवा सम्यग्दृष्टिः सादिरपर्यवसाना याऽभिहिता तामनुभवति सयोगादिरिति ५। सम्प्रति विधानद्वारं परामृशन्नाह-'विधान'मिति, विधीयते तदिति विधानं-भेदः प्रकार इति, ननु च साधनद्वारैरभिहित एव भेदो निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनमिति, किं पुनर्भेद आख्यायते ?, उच्यते, तत्र न सम्यग्दर्शनस्य भेदः प्रतिपिपादयिषितः, किन्तु निमित्तं, तत्र क्षयादि यदुत्पत्तौ कारणतां प्रतिपद्यते तद्भेदो विवक्षितः, इह तु तेन निमित्तेन यत्कार्यमुपजनितं तस्य भेदः प्रतिपाद्यते, एवं च कृत्वा वक्ष्यमाणसङ्ख्याद्वारस्यास्य च विधानद्वारस्य (साधनस्य) च स्पष्ट एव भेदो निदर्शितः स्यात्, विधानं सम्यग्दर्शनस्य भेदकं क्षयसम्यग्दर्शनमुपशमसम्यग्दर्शनं क्षयोपशमसम्यग्दर्शनमिति, सङ्ख्याद्वारे तु तद्वतां भेदः प्रतिपाद्यते, कियत् सम्यग्दर्शनं ?, कियन्तः सम्यग्दर्शनिन इत्यर्थः, निर्णयवाक्येऽपि चासङ्ख्येयानि सम्यग्दर्शनानीत्यस्मिन् असङ्ख्येयाः सम्यग्दर्शनिन इत्यर्थः, मतुपो लोपादभेदोपचारात् अर्शादिपाठाद्वा, तस्माद् युक्तः त्रयाणां साधनविधानसङ्ख्याद्वाराणां परस्परेण भेद इति, सम्प्रति भेदकथने प्रवर्त्तमान एकस्याश्चाभेदरुचेरयुक्तरूपे(क्ता भिन्नते)ति मन्यमानः कारणौपाधिकं भेदं दर्शयन्नाह-'हेतुत्रैविध्यात् क्षयादि त्रिविध'मित्यादि, तिस्रो विधा यस्य स त्रिविधो हेतुः, अन्यपदार्थः, त्रिविधस्य भावः त्रैविध्यं, हेतोस्त्रैविध्यं हेतुत्रैविध्यं तस्माद्धेतुत्रैविध्यात्, वर्तमानसामीप्यादिवत् समासः, हेतुत्रैविध्यप्रदर्शनायाह-'क्षयादि त्रिविधं सम्यग्दर्शन मिति कार्यनिर्देशः एषः, न च त्रिभिः सम्भूयैकं जन्यते मृदुदकगोमयैरिवोपदेशनकं, किन्तु क्षयेणान्यैव रुचिरात्यन्तिकी
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy