________________
सूत्र
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
८७
2
प्राप्नोति श्रेणिकादिः स आदिस्तस्य, केवलप्राप्तावन्त इति, तत् पुनः सम्यग्दर्शनं सादिसपर्यवसानं शुद्धदलिकसहवर्त्तिनी रुचिः कियन्तं कालं भवतीति यत् पुरस्ताच्चोदितं तद्भावयन्नाह - 'तज्जघन्येने'त्यादि, 'सुप्सुपे'ति समासो भवति, अत्यन्तसंयोगे कालस्य द्वितीया, एतदुक्तं भवति-तथा सम्यग्दर्शनं कश्चिज्जन्तुर्द्वे घटिके तत्परिणाममनुभूय पुनर्मिथ्यादर्शनीभवति केवली वा परतः, एवं जघन्यां स्थितिमाख्यायोत्कृष्टां निरूपयन्नाह-'उत्कृष्टेने'त्यादि, उत्कर्षेण कियन्तं कालमास्ते ?, षट्षष्टिः सागरोपमाणि साधिकानि तद्भावना - इहाष्टवर्षे सम्यग्दर्शनमधिगम्य समासादितदीक्षः पूर्वकोटिं विहृत्य अष्टवर्षोनामपरिच्युतसम्यग्दर्शनः विजयादीनां चतुर्णामन्यतमस्मिन् विमाने उदपादि स्थितावुत्कृष्टायां, त्रयस्त्रिंशत्सागरोपमस्थितिः, तत्क्षयाच्च प्रच्युत्य मनुजेषु सहदर्शन: समुत्पन्नः पुनस्तेनैव प्रकारेण संयममनुष्ठाय तदेव विमानं तावत्स्थितिकमनुप्राप्तः पुनः स्थितौ क्षीणायामक्षीणतत्त्वार्थश्रद्धानः संयमं प्राप्यावश्यंतया सिद्ध्यति, एवं द्वे त्रयस्त्रिशतौ षट्षष्टिः पूर्वकोटित्रयातिरिक्ता, अच्युतकल्पे वा द्वाविंशतिसागरोपमस्थितिः तिस्रो वारा: समुत्पद्यते, ततः परं अवश्यंभाविनी तस्य सिद्धिरिति । यदुक्तं पुरस्तात् 'सम्यग्दृष्टिर्द्विविधा-सादिसपर्यवसानेति सोऽंशो भावितः स्थितिरेव सादिरपर्यवसानेति योऽंशः स (तं) भावयति अनेन - 'सम्यग्दृष्टिः सादिरपर्यवसाना सयोग' इत्यादिना, सह योगैः - मनोवाक्कायलक्षणैः सयोगः केवली, उत्पन्ने केवलज्ञाने यावत् शैलेश न प्रतिपद्यते तावत् सयोगकेवली, शैलेशीप्रतिपत्तौ तु निरुद्धयोगः, एतदेवाह - 'शैलेशीप्राप्त' इति, शिलानां समूहाः शैलास्तेषामीशो मेरुः तस्य भावः शैलेशी, अचलतेतियावत्, तां प्राप्तः, स चेयान् कालो ज्ञेयः - मध्यमया वृत्त्या पञ्च ह्रस्वाक्षराण्युच्चार्यन्ते यावत् ततः परं सिद्ध्यत्येव, एष द्विविधोऽपि केवली सयोगायोगाख्यः, भवस्थः साद्यपर्यवसानसम्यग्दृष्टिरुच्यते,