________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
सूत्र
यितुरयमभिप्रायः-प्रागभूत्वा मिथ्यादृष्टेर्दर्शनमाविश्चकास्ति, यच्चोत्पत्तिमत् तत् सादि सपर्यवसानं दृष्टं मनुष्यादिवत्, किञ्चित् सादिरपर्यवसानं सिद्धत्वादिवत्, आचार्योऽपि प्रश्नाभिप्रायानुरूपमेवोत्तरमाह-'सम्यदृष्टिर्द्विविधेत्यादि, द्विविधेति सादिः सपर्यवसाना सादिरपर्यवसाना चेत्येवं द्विविधा, शोभना दृष्टिः सम्यग्दृष्टिः का च शोभना ?, या शुद्धकर्म्मदलिककृता या च दर्शनमोहनीयक्षयात् त्रयाणां भवति छद्मस्थस्य श्रेणिकादेरिव, अपरा भवस्थस्यापायसद्द्रव्यपरिक्षये केवलिनः, अपरा सिद्धस्येति, तत्र या अपायसद्द्रव्यवर्तिनी श्रेणिकादीनां च सद्द्द्रव्यापगमे भवति अपायसहचारिणी सा सादिसपर्यवसाना, यस्मिन् काले श्रेणिकादिभिर्दर्शनमोहसप्तकं क्षपयित्वा रुचिराप्ता स आदिस्तस्याः, यदा त्वपायः-आभिनिबोधिकमपगतं भविष्यति केवलज्ञान उत्पन्ने सोऽन्तोऽस्याः सम्यग्दृष्टेः, एतदाह - 'सादिः सपर्यवसाने'ति, या तु भवस्थकेवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य वा दर्शनमोहनीयसप्तकक्षयादपायसद्द्रव्यक्षयाच्चोदपादि सा सादिरपर्यवसानेति, यस्मिन् काले दर्शनमोहनीयं क्षपयित्वा प्राप्ता स आदिस्तस्याः, एवमेतत्तत्त्वमित्येवंविधा या रुचिः सा न कदाचित् तस्यापैष्यतीति, एवं यथाक्रममुपन्यस्तं स्वयं व्याख्यानयति, सादिसपर्यवसानेति यदुक्तं तस्येदं व्याख्यानं - 'सादिसपर्यवसानमेव च सम्यग्दर्शनं' यच्चापायसद्द्रव्यवति तच्च सम्यग्दर्शनमितीह भणति यच्च सद्द्रव्यविरामे अपायसम्भवे श्रेणिकादीनां तच्च भणति कथं च सादीति ?, सह आदिना वर्त्तत इति सादिः, यस्मिन् काले मिथ्यादर्शनपुद्गलान् विशोध्य स्थापयति सम्यग्दर्शनतया तदा सादिः यदा त्वनन्तानुबन्ध्युदयात् पुनर्मिथ्यादर्शनतया परिणाममानेष्यति क्षपयित्वा वा तान् सम्यग्दर्शनपुद्गलान् केवली भविष्यति तदा सपर्यवसानं, सह पर्यवसानेन - अन्तेन यद्वर्त्तते तत् सपर्यवसानमेव सम्यग्दर्शनं, यदा च दर्शनसप्तकं क्षपयित्वा
,
८६