SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ८५ सूत्र-७ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ सम्यग्दर्शनभाव इति, एवमुभयभावना कार्या, अधुनाऽऽधारे त्रिविधे कथिते परस्यैतदेव सन्देहकारणं जातं-क्व तर्हि सम्यग्दर्शनमिति ?, पृच्छति- कस्मिन् सम्यग्दर्शनं' अथवा अन्यथा प्रश्नः, सम्यग्दर्शनमित्येष गुणः, गुणस्य आश्रयेण भवितव्यं, स पुनराश्रयः किमभ्यन्तर आत्मा उत बाह्यं प्रतिमादि वस्तु यदुपष्टम्भेनोपजातं ! उतोभयमिति प्रश्नित आह-'आत्मसन्निधाने तावदि'त्यादि, आत्माधारविवक्षायां जीवे सम्यग्दर्शनं, तस्य अन्यत्रादर्शनात्, यथा सम्यग्दर्शनमेवं ज्ञानचारित्रे अपीति, एतदाह-'जीवे ज्ञानं जीवे चारित्र'मिति, न च ज्ञानदर्शनचारित्राणि विरहय्य अन्यो जीवोऽस्तीति, काल्पनिकमुपदिशति, कथं ?, यदा तावज्जीवे सम्यग्दर्शनं तदा ज्ञानचारित्रे आधारभावं प्रतिपद्येते, ज्ञानचारित्रात्मनि जीवे सम्यग्दर्शनं, यदा जीवे ज्ञानं तदा दर्शनचारित्रयोराधारता, यदा जीवे चारित्रं तदा ज्ञानदर्शनगोचरात् चारित्रमाधेयमिति, 'एतदादी'ति, एतानि-ज्ञानादीनि आदिर्यस्य गुणान्तरस्य तदेतदादि, तदपि जीवे आधारे दृश्यं भव्याभव्यत्वादि ‘बाह्यसन्निधानेन जीवे सम्यग्दर्शन'मित्यादि, ननु चात्मन्येवोपलभ्यत इत्युक्तं कथमिदानीं परस्मिन्नपि व्यपदिशति ?, उच्यते, न यदेव यत्राविभागेनावस्थितं तदेव तत्रेत्युच्यते, किन्तु अन्यत्रापि व्यवस्थितमन्यत्रोपदिश्यते, यथा पर्यंकस्थो गेहे देवदत्तः, गेहस्थो नगर इति, जीवे सम्यग्दर्शनादीत्यादयो विकल्पाः पूर्वं भाविता एव, इहाप्याधारभेदं केवलमुच्चारयता सर्वं तथैव भावनीयं, उभयसन्निधानेनाभूताः सद्भूताश्च षडेव यथोक्ता भङ्गा एव विकल्पाः भङ्गेषु वा विकल्पा इति, अत्राह- स्वामित्वाधिकरणार्थयोर्न कश्चिदर्थभेद इति किमर्थं भेदाभिधानं ?, उच्यते, एकत्र सम्बन्धविवक्षा परत्राधारविवक्षेति, अस्ति चानयोर्भेदः देवदत्तस्य पुत्रो नगरासनादौ तिष्ठतीति यथा ४। स्थितिद्वारं स्पृशति-'स्थिति'रिति, एतद् विवृणोति-'सम्यग्दर्शनं कियन्तं कालमुत्पन्नं सदवतिष्ठते, 'कालाध्वनो रिति द्वितीया, प्रश्न
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy