SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ सूत्र-७ समीपाध्यासिनः शुभा क्रिया सम्यग्दर्शनोत्पादने शक्ता सा सम्यग्व्यायाम इत्युच्यते, 'उभयमपी'त्यादि, उभयमपीति-निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं, तौ च निसर्गाधिगमावुभावपि, कथं भवतः ?, अत आह 'तदावरणीयस्ये'त्यादि, तस्य-तत्त्वार्थश्रद्धानलक्षणस्य सम्यग्दर्शनस्य यदावरणीयम्-अनन्तानुबन्ध्यादि कर्म तस्य कर्मणः क्षयेण-उक्तलक्षणेनोपशमेन च क्षयोपशमाभ्यामिति च प्राप्यत इति । अत्र कश्चिदाहतदावरणीयस्येति तत्त्वार्थश्रद्धानलक्षणज्ञानावरणीयं गृह्यते, ज्ञानावरणीयवज्जिते कर्मणि प्राय आवरणीयव्यवहाराभावात्, अत एव दर्शनं ज्ञानमिति, एतच्चायुक्तं, ज्ञानावरणीयस्योपशमाभावात्, स्यादेतत्, सत्यमेतत्, किन्तु मोहनीयोपशमात् यो ज्ञानावरणीयक्षयादिः ततः सम्यग्दर्शनमिति, तदप्ययुक्तं, उपशमेनेति पक्षान्तरोपन्यासानुपपत्तेः, हेतोः फलात् पूर्वमुपादानात् अतिप्रसङ्गाच्च, साताद्युदयादपि क्वचिद् ज्ञानावरणीयक्षयादिभावादौदयिकप्रसङ्गादिति यत्किञ्चिदेतत्, तस्मात् सम्यग्दर्शनावारकमित्यनेनानन्तानुबन्ध्यायेव तदावरणीयमुक्तमिति न दोषः ३। सम्प्रत्यधिकरणद्वारं परामृशति-'अधिकरण'मिति, अधिक्रियते यत्र तदधिकरणं आधारः-आश्रय इति, स च आधारस्त्रिविधः-आत्मा वा यत् समवेतं दर्शनं मुख्यतः, उपचारात् परत्र भवति, यत्राश्वादौ सम्यग्दृष्टिर्व्यवस्थितः तस्मिन्नपि तत्, उभयविवक्षायां चोभयत्र तत् आत्मनि परत्र च, एतदेव त्रैविध्यं दर्शयन्नाह-आत्मसन्निधानेनात्मन्येव स्थितमित्यर्थः परसन्निधानेन परत्र स्थितमिति, आत्मस्थमपि तदस्मिन् पक्षे न विवक्ष्यते, उभयसन्निधानेनात्मनि परत्र चेति वाच्यं, आत्मसन्निधानमिति चास्यार्थं सुहृद्भूत्वा कथयति-आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः, आत्मैवाधार आत्मसन्निधानं, प्रसिद्धतरेण स(स्व)शब्देनाभ्यन्तरसन्निधानमिति व्यपदिष्टं, आन्तरः-आसन्नस्तस्य सम्यग्दर्शनस्येति, परसन्निधानमिति चास्यार्थं विवृणोति-‘बाह्यसन्निधानं' बाह्यम्-आसनादि, यत्रस्थस्य
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy