________________
सूत्र-७
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧ साधुभ्यां तदुत्पादितं तयोश्च साधुजीवयोस्तत् सम्यग्दर्शनमुभयत्रापि सतत्त्वेन विवक्षितत्वाज्जीवस्य जीवयोश्च द्वितीयो विकल्पः २। तथा यस्य तदुत्पन्नं यस्य च विवक्षितं यैश्च दृश्यमानैः साधुभिस्तदुत्पादितं तेषां च साधुजीवानां तत् सम्यग्दर्शनं, उभयत्रापि सतत्त्वेन विवक्षितत्वात् जीवस्य जीवानां च तृतीयो विकल्पः ३। तथा यस्य तदुत्पन्नं तस्य च विवक्षितं यया च दृश्यमानया प्रतिमया अजीवरूपयोत्पादितं तस्याश्च तदिति, तदा जीवस्य च तस्याश्च प्रतिमायाः तदिति सम्भाव्यते विकल्पो जीवस्याजीवस्य चेति ४। तथा जीवस्य यस्य तदुत्पन्नं याभ्यां प्रतिमाभ्यां दृश्यमानाभ्यां तदुत्पादितं उभयत्र विवक्षितत्वात् सम्भाव्यते अयं विकल्पो-जीवस्याजीवयोश्चेति ५। तथा यस्य तदुत्पन्नं याभिश्च प्रतिमाभिदृश्यमानाभिरुत्पादितं सर्वत्र विवक्षितत्वाज्जीवस्याजीवानां चेति भङ्गकः सम्भाव्यते ६। एतदाह-'शेषाः सन्ति' षडित्यर्थः, २।
सम्प्रति तृतीयं द्वारं परामृशन्नाह-'साधन मिति, साध्यते-निर्वय॑ते येन तत् साधनं, अत्र पृच्छ्य मानं, तदाह-'सम्यग्दर्शनं केन भवति' याऽसौ रुचिः सुविशुद्धसम्यक्त्वदलिकोपेता सा केन भवतीति ?, अत आह-'निसर्गादधिगमाद्वा भवतीत्युक्तं' एतत् कथयति-न तावेव निसर्गाधिगमौ तादृशीं रुचिं जनयतः, किन्तु निसर्गाधिगमाभ्यां क्षयोपशमादयः कर्मणां जन्यन्ते, ततः क्षयोपशमादेः सम्यग्दर्शनं भवति, तावपि च निसर्गाधिगमौ कर्मणां क्षयोपशमादेरेव भवतः, ततस्ताभ्यामुत्तरोत्तरं क्षयोपशमं विशुद्धं विशुद्धतरमापादयमानाभ्यां यदा प्रतिविशिष्टः क्षयोपशमः आपादितो भवति तदा तस्मात् प्रतिविशिष्टात् क्षयोपशमात् सम्यग्दर्शनं भवतीति कथयति, तत्र निसर्गे बहु वक्तव्यमिति प्राक् तद्दर्शितमेव, एकेन च वाक्येन न शक्यं तत् समस्तं दर्शयितुमित्यतिदिशति 'तत्र निसर्गः पूर्वोक्तः', अधिगमोऽल्पविचारत्वादेकेन वाक्येन, समस्ताधिगमोपसंहारभावादाह-'अधिगमस्तु सम्यग्व्यायाम'इति, गुर्वादि