________________
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧
सूत्र-७ तस्य सम्यग्दर्शनस्य स्वामिनौ भवतः इत्युभयसंयोगोऽभिधीयते, अत्र च लाघविक आचार्यो हेयान् विकल्पानादर्शयति, आदेयाः पुनरुपात्तव्यतिरिक्ताः, अयं तावदत्र विकल्पो न सम्भवति-जीवस्य सम्यग्दर्शनमिति, यतोऽनेन षष्ठ्यन्तेन सम्यग्दर्शनस्य यः समवाय्यात्मा स वा भण्यते बाह्यो वा तीर्थकरादिः यमवलोक्य स तादृशः परिणतिविशेषः समुदभूदिति ?, तत्र यद्यात्मा समवायी सम्बध्यते नास्ति तदा परस्य सम्बन्धः, उभयसंयोगेन चैतच्चिन्त्यते, अथवा यदि तीर्थकरादिरभिसम्बध्यते तदा नात्माभिसम्बन्धः, अतः त्याज्य एवायं विकल्पः, एवं नोजीवस्येति, अजीवस्येत्यर्थः, एकस्याः प्रतिमायाः विवक्षितत्वादुभयसंयोगाभाव इति हेयो विकल्पः, तथा जीवयोः सम्यग्दर्शनमिति न सम्भवति, यस्माद्वा तत्र समवायिनौ पुरुषौ स्वामितया विवक्षितौ, मम च सम्यग्दर्शनमस्य च सम्यग्दर्शनमुत्पन्नमिति, यतस्तु तदालम्ब्योत्पन्नं तस्याविवक्षितस्वामितया उत्पादनिमित्तयोश्चोभयसंयोगो विवक्षितः अतस्त्यज्यते, तथा अजीवयोः सम्यग्दर्शनमिति, द्वयोः प्रतिमयोरालम्बनीकृतयोर्भेदेन तद्विवक्षितं, यत्र तु समवेतं तत्राविवक्षा, अतस्त्यज्यते अयमपि विकल्पः तथा पञ्चमोऽपि त्याज्य:-जीवानामिति, अत्र बहव एव सम्यग्दर्शनसमवायिनो विवक्षिता जीवाः-अस्य चास्य चास्य चेति, न तु येनालम्बनेन तेषामुत्पन्नं तस्य तत् सम्यग्दर्शनं विवक्षितं, तस्मादयमपि त्याज्यः, षष्ठोऽप्यजीवानामिति त्यज्यते, आलम्ब्यानां बहूनां प्रतिमानामेतत् सम्यग्दर्शनं विवक्षितं, यत्र तूत्पन्नं तदविवक्षितमिति त्याज्य एष षष्ठो विकल्पः, एवमेते उभयसंयोगविवक्षायां षडपि त्यक्ताः, आदेया अपि षडेव, यथा जीवस्य च जीवस्य च, यस्य तदुत्पन्नं तस्य च तत्परिणन्तुः यं च निमित्तीकृत्य साधुमुपजायते तदर्शनं तस्य च तदिति, उभयोर्विवक्षितत्वात् स तत्त्वेन विकल्पः सम्भाव्यते १। तथा यस्य तदुत्पन्नं यस्य च विवक्षितं याभ्यां च दृश्यमानाभ्यां