________________
સૂત્ર-૭ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૮૧ सम्यग्दृष्टिः, एवं नोग्रामोऽपि वक्तव्यः, चतुर्दशभूतग्रामैकदेशत्वात् सम्यग्दृष्टेरिति । सम्प्रति स्वामित्वशब्दोच्चारणात् स्वामीत्यनेन 'कस्य' स्वामिनः सम्यग्दर्शनमिति, उद्देशवाक्यमेवं कृत्वा प्रवृत्तं-किं यत्समवाय्येतत् तस्यैवैतत्, उत तदुत्पत्तिनिमित्तभूतस्यान्यस्यापि, व्यवहारार्थमाश्रीयते ? इति, उच्यते, मुख्येन तावत् कल्पेन यद् यत्र समवेतं तत् तस्यैवेति, व्यवहारार्थं तु निमित्तभूतस्याप्याश्रीयते, एतदाह-'आत्मसंयोगेने'त्यादि, आत्मसंयोगेन-आत्मसम्बन्धेन, यदा ह्युत्पद्यमानस्य सम्यग्दर्शनस्य परतोऽपि निमित्तात् प्रतिमादिकात् नापेक्षा क्रियते प्रतिमादेस्तदाऽसौ परिणाम आत्मनि समवेत इतिकृत्वा स एवात्मा तेन परिणामेन तानि तत्त्वान्येवमभिमन्येत अत आत्मसंयोगेन जीवस्य सम्यग्दर्शनं, जीवस्य स्वामिनः सम्यग्दर्शनं-रुचिरिति, 'परसंयोगेने'ति परं-साधुप्रतिमादि वस्तु तन्निमित्तीकृत्य श्रद्धानपरिणाम उपजायते ततः स परिणामस्तत्कर्तृक इति तस्य व्यपदिश्यते, अत्र परसंयोगे षड् विकल्पा भवन्ति-जीवस्येत्यादयः, यदाऽस्य जन्तोः परमेकं मुनिमालम्ब्य क्रियानुष्ठानयुक्तं सा रुचिरुपजायते, क्षयोपशमो हि द्रव्यादिपञ्चकमुररीकृत्य प्रादुरस्ति, अतो बहिरवस्थितस्य साधोरुत्पादयितुः सा रुचिः, स्वं कुम्भ इव कुम्भकारस्येति, एवमेकमजीवाख्यं पदार्थं प्रतिमादिकं प्रतीत्य यदा क्षयोपशमः समुपजायतेऽतस्तदा तस्यैवाजीवस्य सम्यग्दर्शनं नात्मन इति, यदा पुनर्बी साधू निमित्तं क्षयोपशमस्य विवक्षितौ नात्मा तदा जीवयोः सम्यग्दर्शनं, यदा पुनरजीवौ प्रतिमाख्यावुभौ निमित्तीकृतौ तदा तयोः स्वामित्वविवक्षायां तत् सम्यग्दर्शनमिति, यदा पुनर्बहवो जीवाः साधवस्तस्योत्पत्तौ निमित्तं भवन्ति तदा जीवानां सम्यग्दर्शनं, न तु यत्र समवेतमिति, यदा पुनर्बह्वीः प्रतिमा भगवतां दृष्ट्वा तत्त्वार्थश्रद्धानमाविर्भवति तदा च तासामेव तत्कर्तृकत्वात् नात्मन इति, 'उभयसंयोगेने ति यदाऽऽत्मनोऽन्तरङ्गस्य बहिरङ्गस्य च साध्वादेस्तद्विवक्ष्यते तदा उभौ