________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
सूत्र
काले, देवादस्तु भवानङ्गीकृत्य यावती यत्र स्थितिस्तावन्तं कालं तत्रावतिष्ठत इति ५। विधानं प्रकारः, कतिप्रकारा जीवाः ?, त्रसस्थावरादिभेदाः, एवं शेषा अपि सिद्धान्तानुसारिण्या धिया अवलोक्य पारमार्षं प्रवचनं वाच्याः, ग्रन्थगौरवभयात्तु नादिद्रिये भाष्यकार:, तथा यदर्थं शास्त्रप्रवृत्तिस्तत्रापि योजनां निर्देशादीनां कुर्वन्नाह - 'सम्यग्दर्शनपरीक्षाया'मित्यादि, यदा सम्यग्दर्शनं परीक्ष्यते तदापि सम्यग्दर्शनं किं गुणः ? क्रिया ? द्रव्यमिति पृष्टे निर्देशा भवन्ति, उच्यते - द्रव्यं, कथं ?, ये जीवेन शुभाध्यवसायविशेषेण विशोध्य पुद्गलाः प्रतिसमयमुपभुज्यन्ते अतस्ते सम्यग्दर्शनस्य निमित्तं, तदुपष्टम्भजन्यत्वात् तत्त्वार्थश्रद्धानपरिणामस्य, ततश्च कारणे कार्योपचारात् द्रव्यं सम्यग्दर्शनं, मुख्यया वृत्त्या तु तत्त्वार्थ श्रद्धानरूप आत्मपरिणामः सोऽपि नात्मव्यतिरिक्त एवेति द्रव्यमित्युक्तं, आह- यदि यथोक्ताः पुद्गलास्तदुपष्टम्भजन्यो वाऽऽत्मपरिणामः सम्यग्दर्शनं न तर्हि क्षीणदर्शनमोहनीयस्य छद्मस्थकेवलिसिद्धजीवस्य सम्यग्दर्शनमित्युक्ते आह- 'सम्यग्दृष्टिर्जीव' इति सम्यक् - शोभना सदसत्पदार्थावलोकिनी दृष्टिर्यस्य स क्षीणदर्शनमोहनीयस्य सम्यग्दृष्टिर्जीव इति, एतदुक्तं भवति - क्षीणे दर्शनमोहनीये न सम्यग्दर्शनी भण्यते, किं तर्हि ?, सम्यग्दृष्टिरेवेति, अतः सिद्धसाध्यतेतिभावः, स पुनः क्षीणदर्शनमोहः किं रूपी ?, नेत्याह- 'अरूपी' अविद्यमानं रूपमस्येत्यरूपी, सर्व्वधर्म्मादिषु क्षेप्यः, नासौ रूपादिधर्म्मसमन्वितः, अमूर्त आत्मेति, छद्मस्थकेवलिनोर्यद्यपि कर्म्मपटलोपरागस्तथाप्यात्मा न स्वभावमपजहाति, आगन्तुकं हि कर्म्मरजो मलिनयत्यात्मानमभ्रादिवच्चन्द्रमसं, सिद्धास्तु सर्वथाप्यरूपा एव, स एव सम्यग्दृष्टिः इदानीमाशङ्क्येत - किं स्कन्धो ग्राम इति, तन्निरासायाह- 'नो स्कन्धः' अरूपत्वादेव न स्कन्धः-पुद्गलादिरूपः, स्वप्रदेशाङ्गीकरणात्तु स्यात् स्कन्धः, अथवा पञ्चास्तिकायसमुदिताः स्कन्धः, नोशब्दस्य तद्देशवाचित्वान्नोस्कन्धः
८०
>