SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ७८ सूत्र-७ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ अप्यन्यमताभिमताः सन्त्यतत्त्वरूपा इत्यतो द्वयमुपादत्ते-'जीवादीनां तत्त्वाना'मित्येतत्, ते च जीवादयः किमेभिः समासेन निरूप्यन्ते उत व्यासेनेत्यत आह-'विकल्पश'इति, शसश्च कारकसामान्याद्विधानमिति तृतीयार्थ एष इति, एतत् कथयति-'विस्तरेणे'त्यनेन, उक्तेऽपि चैतस्मिन्नसम्पूर्णमेव वाक्यं स्यात्, यदि पूर्वसूत्रादधिगत इत्येतन्नानुवर्तते, अतोऽनुवर्तत इति कथयति-अधिगम इति, सत्तां च पदार्थो न व्यभिचरति यद्यपि तथापि अन्यास्याः क्रियाया नाध्याहारः कर्त्तव्यः, ततश्च-भवतीत्याह, अनेनैव सूत्रसमुदायो व्याख्यातः, अवयवार्थं तु व्याख्यानयन्नाह-'तद्यथे' त्यादि, यथैते भाव्यन्ते निर्देशादयस्तथा कथ्यन्ते, निर्देश इति व्याख्येयावयवोपन्यासः, अस्य तूद्देशपूर्वकत्वात् प्रश्ने सति निर्देशोपपत्तेरेतद्व्याचिख्यासयैवोद्देशमाह-'को जीव'इति, किं द्रव्यं गुणः क्रियेति पृष्टे निर्दिशति- औपशमिकादी'त्यादि, औपशमिकादयो वक्ष्यमाणास्त एव भावाः तथाभवनादात्मनः तैर्युक्तः द्रव्यं जीवः, न द्रव्यमानं, नापि केवला भावाः, उभयमित्यर्थः १। स्वामित्वादयो जीवेऽभ्युह्या अनया दिशेति न दर्शितवान्, वयं तु दर्शयामः, स्वामीप्रभुस्तद्भावः स्वामित्वं, जीवो हि कस्य प्रभुः ?, जीवस्य वा के स्वामिन ? इति, उच्यते, जीव एकोऽवधी(ऽधि)कृतः धर्मादीनामस्तिकायानां स्वामी, यतः सर्वेषु मूर्छा यात्युपलभते परिभुङ्क्ते शरीरतया वाऽऽदत्ते अतः सर्वेषां जीवः स्वामी, जीवस्यापि जीवाः अन्ये तन्मूर्छाकारिणः स्वामिनो भवन्ति २। साध्यते येन तत् साधनं, केन चात्मा साध्यते ?, उच्यते, नान्येनासौ, सततमवस्थितत्वात्, बाह्यान् वा पुद्गलानपेक्ष्य देवादिजीवस्तैः साध्यत इति, तैः स्वस्थानं नीयत इतियावत् ३। अधिकरणमाधारः, कस्मिन्नात्मा ?, निश्चयस्य स्वात्मप्रतिष्ठत्वात् आत्मनि, व्यवहारस्य शरीराकाशादौ स्थितः, आत्मरूपादनपगमः ।। कियन्तं कालमेष जीवभावेनावतिष्ठते ?, भव(चक्र)मङ्गीकृत्य सर्वस्मिन्
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy