SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सूत्र-प શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ , पूर्वाख्ये कथ्यमाने 'प्राभृतज्ञ' इति व्याकरणमूलयोनिभूतशब्दप्राभृतज्ञो गुरुः किमित्याह - 'द्रव्यमिती' त्यादि, द्रव्यमित्यस्यार्थं तीर्थकृत् किमाहेति परिपृष्टो जगाद - 'भव्यमाहे 'ति, एतदपि साम्प्रतं कथमवगम्यत इति चेत् शब्दप्राभृतविनिर्गतव्याकरणश्रुतेः, तदाह- 'द्रव्यं च भव्य' इति, अस्यायमर्थः-द्रव्यमिति निपात्यते भव्यं चेद्भवति, भव्यमित्यपि सन्देहास्पदमेव केषाञ्चिदिति स्पष्टयति- 'भव्यमिति प्राप्यमाह' प्राप्तव्यं तैस्तैः स्वगतैः परिणतिविशेषैर्गत्यादिभिः प्राप्नोति वा तानिति प्राप्यं, ननु चायं भवतिरकर्म्मकः सत्ताभिधायी कथं प्राप्यमित्यनेन कर्माभिधायिना कृत्येन भव्यमिति अस्यार्थो विव्रियते ?, उच्यते, नैवायं सत्ताभिधायी, किं तर्हि ?, प्राप्त्यभिधायी, चुरादावात्मनेपदी, तदाह - 'भू प्राप्तावात्मने' प्राप्त्यभिधायिता कथ्यतेऽनेन, 'तदेव' मिति प्राप्त्यभिधायित्वे सत्ययमर्थो भव्यशब्दस्य स कर्मसाधनपक्षे, प्राप्यन्ते स्वधर्मैर्यानि तानि भव्यान्युच्यन्ते, कर्तृसाधनपक्षे तु प्राप्नुवन्ति तान्येव धर्माणीति भव्यान्युच्यन्त इति, एतदाह- 'प्राप्यन्ते प्राप्नुवन्तीति वा द्रव्याणीति, अन्ये तु व्याचक्षतेआगमतश्च प्राभृतज्ञ इति द्रव्यप्राभृतपदार्थज्ञो भावद्रव्याणि द्रव्यमिति च भव्यमित्यादि नोआगमतो द्रव्यलक्षणाभिधानप्रतिपादनपरमिति, एतच्च न भाष्यकाराभिप्रायानुसारीति नातीव शोभनं व्याख्यानं, अननुसारित्वं च ' अथवा शून्योऽयं भङ्ग' इत्यभिधानात्, योग्यतालक्षणमेव द्रव्यमस्यात्राभिप्रेतमिति गम्यते, अन्यथा जीवपदार्थस्तत्र चानुपयुक्तो द्रव्यजीव इत्यनेन प्रकारेणास्यापि सम्भवात् स शून्यो न स्यादिति कृतं विस्तरेण । सम्प्रति जीवादीनां न्यासं प्रदर्श्य तेषां पर्यायस्य द्रव्यशब्दस्य अन्येषामप्येवमेव कार्य इत्यतिदिशन्नाह - ' एवं सर्वेषा 'मित्यादि, एवं यथा जीवादीनां द्रव्यशब्दस्य तथा 'सर्वेषां' गुणक्रियादिशब्दादीनामिति (अनादिमतां) भव्याभव्यादीनां आदिमतां च मनुष्यादीनां पर्यायाणां, 'जीवादीनां (भावानां) मोक्षान्तानां' सम्बन्धिनामनादिमदादीनां 'तत्त्वार्था ૫૭
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy