________________
સૂત્ર-૫
૫૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ जीवादीनां शब्दास्तेष्वप्यस्य नामादिचतुष्टयस्यावतार इत्येतत् कथयन्नाह'पर्यायान्तरेणापी'त्यादि, प्रधानशब्दस्य तदर्थशब्दान्तराणि पर्यायाः पर्यायादन्यः पर्यायः पर्यायान्तरं तेनाप्यस्य चतुष्टयस्य न्यासः कार्यः, तदाह-'नामद्रव्य'मित्यादि, एतद्भाष्यं नामादिजीवव्याख्यानेन भावितमेव यावत् केचिदप्याहुरित्यादि, केचित् पुनर्बुवते, 'यद् द्रव्यतो द्रव्यं भवती'ति यदिति त्र्यणुकादि, द्रव्यत इति च तृतीयार्थे पञ्चम्यर्थे वा तसिः, द्रव्यैः सम्भूय यत् क्रियते, यथा बहुभिः परमाणुभिस्त्रिप्रदेशिकादिः स्कन्धः, अथवा तस्मादेव भेदे परमाणुद्धिप्रदेशिकादिश्च तद्रव्यद्रव्यं, द्रव्यतो द्रव्यस्यैव भवनादिति, एतद्विशेष स्थापयन्नाह-'तच्चे'त्यादि, तच्चैतद् द्रव्यं पुद्गलद्रव्यं द्रव्यमेव भवति, नान्यद् धर्मादि इत्येवं प्रत्येतव्यं, धर्मादेरन्यैः सम्भूयाकरणात्, भिद्यमानाच्चान्यवस्त्वनुत्पत्तेरिति, पुद्गलेषु चैवमुत्पादो न्याय्य इत्येतदाह-'अणव' इत्यादिना, अणवःपरमाणवः स्कन्धाश्च-द्विप्रदेशिकादयः सङ्घातभेदेभ्यः उत्पद्यन्ते, सङ्घातात् स्कन्धाः, भेदादणवः, इत्येवं वक्ष्यामः पञ्चमेऽध्याय इति ॥ भावद्रव्यमभिधातुमाह-'भावतो द्रव्याणी'त्यादि, अत्र भावद्रव्यमित्येकं विन्यस्य भावतो द्रव्याणीति बहुवचननिर्देशः पराभिमतं यदेकं विश्वस्य कारणमबादिद्रव्यं, यथाहुरेके-'आप एवेदं खल्विदमग्रे आसी'दिति तद्व्यपोहेन द्रव्यबहुत्वख्यापनार्थं, कानि तानीत्याह-"धर्मादीनि पञ्च सगुणपर्यायाणी'ति, सहवर्त्तिनो गुणाः-अमूर्तत्वादयः क्रमवर्त्तिन पर्यायाःअगुरुलध्वादयः, तद्भाञ्जि, मा भूद्गुणादिभेदेन नित्यान्येवेत्याह'प्राप्तिलक्षणानी'ति, तान्येवान्यानन्यांश्च धर्मान् प्रतिपद्यन्ते परिणामलक्षणानीतियावत् तथा च जीवो देवादिभावेन परिणमते पुद्गलाः कृष्णादित्वेन धर्मादयस्तद्गमनादिनिमित्तत्वेन, 'वक्ष्यन्त' इति उपरिष्टात्, प्राप्तिलक्षणानीति यदुक्तं सा न स्वमनीषिकेत्याप्तागममाह- आगमतश्चे' त्यादिना, आगमत इति तसिः सप्तम्यर्थे, चशब्दोऽपिशब्दार्थे, आगमेऽपि