________________
સૂત્ર-૫
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૫૫ भाष्यकारेणास्य प्रतिषेधः कृत इति, भावजीवमधिकृत्याह-'भावतो जीवा' इति, अत्रैकवचनोद्देशे बहुवचननिर्देशः एकपुरुषवादनिरासार्थः, तथा चाहुरेके-'पुरुष एवेद'मित्यादि, भावत इति च तृतीयार्थे तसिः, भावैः सह ये वर्तन्त इत्यर्थः, अत एवाह- औपशमिके'त्यादिना,
औपशमिकादीनां भावानां लक्षणं इत्थं क्रमाभिधाने प्रयोजनं च द्वितीयाध्यायादिसूत्रे वक्ष्यामः 'औपशमिकक्षायिको भावा'वित्यत्र (अ.२ सू.१), ततश्चौपशमिकादिभावयुक्ताः, इत्यनेन निःस्वभावजीववादव्यवच्छेदमाह, तथा चाहुरेके-"निःस्वभावाः जीवाः संवृतैः सन्तः" "अकार्याकरणैकस्वभावा" इति चान्ये, 'उपयोगलक्षणाः' इति साकारानाकारसंविल्लक्षणाः, ते च नैकरूपाः, किन्तु ?, 'संसारिण' इत्यादि, संसार उक्तलक्षणः स एषामस्ति ते संसारिणो-नारकादयः, 'मुक्ताश्चेति मुक्ताः कर्मसम्बन्धेन, एते एकसमयसिद्धादयः, चशब्दात् सप्रभेदाः द्विविधा वक्ष्यन्ते द्वितीयेऽध्याये, एवं जीवे नामादिन्यासमुपदाजीवादिष्वतिदिशन्नाह-'एव'मित्यादि, एवमिति यथा जीवे तथा अजीवादिषु, अपिशब्दात्तद्भेदेष्वपि धर्मास्तिकायादिषु, अत एवाह'सर्वेष्वि'ति व्याप्त्या अनुगन्तव्यमिति-नामादिचतुष्टयं कथनीयं, यथा नामाजीवः नामधास्तिकाय इत्यादि, एवमिदमक्षरमात्रगमनिकया नामादिस्वरूपं व्याख्यातं, वस्तुधर्मत्वं चैतेषां सूक्ष्मोपपत्तिभिः संमत्यादिभ्योऽवसेयं, लेशतस्तु दर्श्यते-वस्तुधर्मो नाम, तत्प्रतीतिहेतुत्वात्, तथा लोकसिद्धेः स्तुत्यादौ सुखादिभावात् स्तवफलोपपत्तेश्च, एवं स्थापनाऽपि वस्तुधर्मः, तदुद्देशेन करणात् भेदेन प्रवृत्तेः तदाकाराराधनात् तद्धेतुकश्रेयःसिद्धेश्च, द्रव्यभावौ तु तस्यैव तथाभवनात् साधुदेवायुदाहरणतः सुज्ञानावेव, इह च नामस्थापने अधिकृतवस्तुभिन्ने कथञ्चित् ये ते तद्वत फलासाधनात् वस्तुनि प्रवृत्तिनिमित्ताभावात् बहिःपर्यायरूपे इति केचिद् व्याचक्षते, न चैतदनार्षमित्यलं प्रसङ्गेन ॥ साम्प्रतं येऽपि