________________
૫૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૫ तथा जीवाकृतिरपि काष्ठादिषु स्थापिता जीव इति भावः । अधुना द्रव्यजीवमाह-'द्रव्यजीव इति', इतिः प्रकारार्थः, योऽयं प्रकारः प्रागुपन्यस्तः स उच्यते, 'गुणपर्यायवियुक्त' इति सहवर्तिनो गुणा:
चैतन्यसुखादयः क्रमवर्तिनः पर्यायाः-तिर्यङ्मनुष्यादयः, गुणाश्च पर्यायाश्चेति द्वन्द्वस्तैर्वियुक्तो, रहित इत्यर्थः, ननु द्रव्यगुणादेरभेदप्रतिज्ञानात् कथमेतदित्याह-'प्रज्ञास्थापितः' प्रज्ञा-बुद्धिस्तया स्थापितः, गुणादिभेदेन बुद्ध्या कल्पितः इत्यर्थः, स एव विशेष्यते-'अनादी'त्यादिना, अनादिश्चासौ पारिणामिकभावश्च तेन युक्तः, इह भाव औदयिकादिरूपोऽपि भवति तद्व्यपोहाय पारिणामिकग्रहणं, असावप्यभ्रेन्द्रधनुरादिनां सादिपारिणामिक इत्यनादिग्रहणं, एवमनादिपारिणामिकभावयुक्तो जीव उच्यते द्रव्यजीव इति, अस्य कल्पनया द्रव्यमात्रत्वादिति, तत्त्वतो निर्विषयेयं कल्पना, गुणपर्यायवियुक्तस्य तस्य वान्ध्येयादिवदसम्भवात्, भूतभाविभवत्पर्याययोग्यता चेह द्रव्यलक्षणं न समस्तीति मन्यमान आह-'अथवा शून्योऽयं भङ्ग' इति, निविषय इत्यर्थः, एतदेव स्पष्टयति'यस्ये'त्यादि, यस्येति वस्तुनः, हिशब्दो यस्मादर्थे, अजीवस्यचेतनारहितस्य सतो-विद्यमानस्य भव्यं-भविष्यत् जीवत्वं-चेतनावत्त्वं स्याद्-भवेत् स द्रव्यजीवः स्यात्, भाविजीवकारणतया, यद्येवमपि सति को दोष इत्याह-'अनिष्टं चैतदि'ति, चशब्दः एवकारार्थः, अनिष्टमेवैतत्, एवं ह्यजीवस्य जीवभावे जीवस्याप्यजीवभाव इति सिद्धान्तविरोधः, आह-एवमपि विरोध एव, यत उक्तं"जत्थ उ जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थवि अ ण जाणेज्जा चउक्कयं निक्खिवे तत्थ ॥१॥" त्ति,
चतुष्टयस्य व्यापितोक्ता सा विरुध्यते, न, अस्य बाहुल्यविषयत्वात्, प्रायः सर्वपदार्थेष्वन्येषु सम्भवात्, इहापि जीवपदार्थज्ञस्तत्र चानुपयुक्त इति द्रव्यजीवोपपत्तेः, तत्तथाभावेन योग्यतालक्षणं तु द्रव्यत्वमधिकृत्य