SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ तत्र चेतनावत्यचेतने वा यदृच्छया यो जीवशब्दो नियुक्तस्तं व्यपदिशति स शब्दो नामजीव इत्युच्यते, न तद्वस्तूपाधिक इति, ‘अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति न्यायात् । सम्प्रति स्थापनाजीवं कथयति'यः काष्ठपुस्त' इत्यादिना, यः स्थाप्यते जीव इति सम्बन्धः, कः स्थाप्यते ? काष्ठपुस्तादिष्वित्याह-काष्ठं-दारु पुस्तं-दुहितृकादि सूत्रचीवरादिविरचितं चित्रं-चित्रकराद्यालिखितं, कर्मशब्दः क्रियावचनः प्रत्येकमभिसम्बध्यते, काष्ठक्रियेत्यादि, अक्षनिक्षेप इति सामयिकी संज्ञा चन्दनकानां, निक्षेपो रचना विन्यास इति, एते काष्ठपुस्तचित्रकक्षिनिक्षेपा आदिर्येषां रच्यमानानां ते काष्ठपुस्तचित्रकक्षिनिक्षेपादयः, आदिशब्दश्चोभाभ्यां सम्बन्धनीयः, काष्ठपुस्तचित्रकादयो ये सद्भावस्थापनारूपाः तथा अक्षनिक्षेपादयोऽसद्भावस्थापनारूपा ये तेषु बहुषु 'स्थाप्यते' जीवाकारेण रच्यते-जीव इति यो जीवाकारो रचितः स स्थापनाजीवोऽभिधीयते, एतदुक्तं भवति-शरीरानुगतस्यात्मनो य आकारो दृष्टः स तत्रापि दृश्यत इतिकृत्वा स्थापनाजीवोऽभिधीयते, ननु चाक्षनिक्षेपे नास्त्यसावाकार इति, उच्यते- यद्यपि बहीरूपतया नास्ति तथापि बुद्ध्या स रचयिता तत्र रचयति तमाकारम्, अत एव स्थापना नामद्रव्याभ्यां सुदूरं भिन्ना, यतो निक्षिप्यमाणं वस्तु न शब्दो भवति, नापि तद्भाववियुक्तं विवक्ष्यते, किन्त्वाकारमात्रं यत्तत्र तद्विवक्षितमिति । स्थापनाजीवं दृष्टान्तेन भावयति-'देवताप्रतिकृतिवदि'त्यादिना, देव एव देवता तस्याः प्रतिकृतिः-प्रतिबिम्बं, सा च न सैव सहस्राक्षशूलपाणिमयूरवाहनादिरूपा, नापि ततोऽत्यन्तभिन्नस्वभावाऽन्यैव, किन्तु तत्समानपरिणामरूपा तथाप्रतीतिरिति, तद्वत् इन्द्रो-देवाधिपः रुद्रःउमापतिः स्कन्द इति स्कन्दकुमारः, उत्तरपदलोपात्, सत्यभामा सत्येति यथा, विष्णुः-वासुदेवः, रुद्रादीनां न देवताख्या शास्त्रे, लोकरूढ्या त्वेवमुपन्यासः, यथेन्द्रादीनां प्रतिकृतिः स्थापिता सतीन्द्र इति व्यपदिश्यते
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy