SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૫ किमित्याह-'न्यासो भवति' विरचना कार्येत्यर्थः, किमर्थमादावित्याह"विस्तरेणे'त्यादि, विस्तरेण-प्रपञ्चेन लक्षणतो विधानतश्चाधिगमायेति, यदुक्तं प्राग् लक्षणतो विधानतश्च पुरस्ताद्विस्तरेणोपदेश्याम इति, तत्र लक्षणविधानाभ्यामप्यभिधाने चशब्दात् स्वभेदप्रभेदैविस्तरेणाधिगमायेति, तत्राप्युपयोगो लक्षणं संसारिणो मुक्ताश्चेत्यादौ उपयोगः चतुर्भेदः संसारश्चेति नामादिन्यासव्याख्यावतारणेन प्रपञ्चाधिगमायेत्यर्थः, आदावुक्तोऽयं सर्वत्रावधारयितुं शक्यत इतिभावः । एनमेवोपन्यस्य पर्यायेण व्याचिख्यासुराह-'न्यास' इत्यादि, न्यासः कः ?, उच्यतेनिक्षेप इत्यर्थः, एतन्नामादि यथा लक्ष्येऽवतरति तथाऽभिधातुमाह'तद्यथे'त्युदाहरणोपन्यासार्थः, नामजीव इत्यादि, नाम्नैव जीवः नामजीवः, जीवशब्द इत्यर्थः, एवं स्थापना जीवाकारा प्रतिकृतिः, एवं द्रव्यं तद्गुणवियुक्तः, एवं भावस्तद्गुण इति, एवं चत्वार्यापि तत्त्वं सर्वेभ्योऽर्थानर्थसिद्धेरिति, यद्वा एकस्मिन्नेव शरीरिणि चतुष्टयं, तत्र यो जीव इतिशब्दः प्रवर्तते स नामजीवः, य आकारः कराद्यवयवसन्निवेशः स स्थापनाजीवः, विवक्षया ज्ञानादिगुणवियुक्तत्वं द्रव्यजीवो, ज्ञानादिगुणपरिणतिभाक्त्वं तु भावजीव इति ॥ सम्प्रति नामादीनां जीवविशेषणतयोपात्तानां स्वार्थं लक्ष्ये दर्शयति-'नामे'त्यादिना, नामेति किमुक्तं भवति ?-संज्ञा नाम करणमित्यनर्थान्तरमेतत्, अनेन शब्देनेदं वस्त्वभिधीयत इतियावत्, एतदेवाह-'चेतनावत' इत्यादिना, चेतनाज्ञानं सा यस्यास्ति तच्चेतनावत्, तद्विपरीतमचेतनं, 'द्रव्यस्येति (तस्य) प्रदर्शनमिदं, गुणक्रिययोरपि नामादिचतुष्टयप्रवृत्तेः, द्रव्यव्यतिरेकेण वा गुणक्रियाऽभावात् प्राधान्यख्यापनपरं, अतस्तस्य द्रव्यस्य चिन्ता न क्रियते, व्यवहारार्थं संज्ञा-सङ्केतः क्रियते, कीदृगित्यत आह-'जीव' इति, इतिना स्वरूपे जीवशब्दः स्थाप्यते, जीव इत्ययं ध्वनिः तच्चेद्वाच्योऽर्थो नामतया(क्रियते) नियुज्यते स नामजीव इति, स इत्यनेन
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy