SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ उ० શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ सूत्र-3 लभमानस्तल्लभत इति काक्वा अभ्युपेतं, तदभावेऽभावात्, अत एवाहअपूर्वकरणं व्यावर्णितलक्षणं 'तादृग्भवति' तादृगिति यद्यथाप्रवृत्तकरणस्य कार्यमनिवृत्तिकरणस्य च कारणं येनास्य जीवस्य अनुपदेशादित्युपदेशमन्तरेण, विशिष्टबाह्यनिमित्ताभावोपलक्षणमेतत्, तथाभव्यत्वादिभावतः आभ्यन्तरदोषोपशमप्राधान्यात्, अन्यदपि विशिष्टं बाह्यं निमित्तमन्तरेण 'सम्यग्दर्शनं' यथोदितस्वरूपमुत्पद्यते अभिव्यज्यते, स्वत एव कथञ्चिद्धातुप्रागुण्याद्रोगोपशान्तिवद्, इत्येतदेवम्विधं 'निसर्गसम्यग्दर्शन'मिति निगमनं, उक्तं निसर्गसम्यग्दर्शनम् । अधुना अधिगमसम्यग्दर्शनमभिधातुमाह-'अधिगम' इत्यादि, गमो ज्ञानं, अधिको गमः अधिगमः, आधिक्यं सामान्येन परोपदेशादुत्पत्तेः, अभिगमस्त्वसारः संसारः इत्यन्वयालोचनेन, आगमोऽपि सारोऽपवर्ग इति व्यतिरेकालोचनेन, निमित्तमित्युपदेशस्य प्रतिमादि, तद्दर्शनजो बोधोऽपि निमित्तम् आयुघृतमिति यथा, श्रवणमिति श्रुतिः प्रतिमादेरेव भूषादिवर्जनाकर्णनोत्थो बोध एवेत्यर्थः, शिक्षेति स्वयमेवाप्तप्रणीतागमाभ्यासः, उपदेश इति गुरुलक्षणयुक्तात् गुरोर्धर्मदेशना इत्यनर्थान्तरम् एवमेते किञ्चिद्भेदं प्रतिपद्यमाना अनर्थान्तरमित्युच्यते, एवं पर्यायकथनं कृत्वा संपिण्ड्य कथयन्नाह-'तदेव'मित्यादि, तदेवमित्युक्तेन प्रकारेण यत् परोपदेशात् परोपदेशमाश्रित्य, विशिष्टबाह्यनिमित्तोपलक्षणमेवैतत्, तथाभव्यत्वादिभावतः बाह्यनिमित्तप्राधान्यात् अन्यदपि प्रतिमादि बाह्यं निमित्तमाश्रित्य तत्त्वार्थश्रद्धानं भवति अपूर्वकरणादिक्रमेण, वैद्योपदेशक्रियानुष्ठानाद्रोगोपशान्तिवद्, अधिगमसम्यग्दर्शनमिति निगमनमेतत्, इह च परानपेक्षत्वात् कथञ्चिन्निसर्गे सत्यधिगमोपपत्तेः, अन्यथा कथं तदभावान्निसर्गसम्यग्दर्शनानन्तरमधिगमसम्यग्दर्शनोपन्यास इति?, आहसर्वसत्त्वानामनादित्वात् कर्मसंयोगस्य किमिति कालभेदेन सम्यग्दर्शनलाभः, तथा च केषाञ्चिदयमनादिमान् केषाञ्चिदद्य केषाञ्चिदनन्तेन
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy