________________
सूत्र-3 શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૯ सातादि, पापमुपघातकारि ज्ञानादिगुणानां, तयोः पुण्यपापयोः फलं स्वरसविकाररूपं पुण्यपापफलं तदनुभवतो जीवस्योपभुञ्जानस्य, अनु पश्चादर्थे, पूर्वं ग्रहः पश्चात् फलोपभोग इति, कथमनुभवत इत्याह'ज्ञानदर्शनोपयोगस्वाभाव्यात्' ज्ञानदर्शने व्याख्याते, तयोः (उपयोगस्य) स्वाभाव्यं तस्मात् ज्ञानदर्शनोपयोगस्वाभाव्यादिति, एतदुक्तं भवति-यदा यदोपभुङ्क्ते तदा तदा चेतयते सुख्यहं दुःखितोऽहमित्यादि, साकारानाकारोपयोगद्वयसमन्वितत्वादवश्यंतया चेतयत इति, उत्तरग्रन्थेनापि सम्बन्धोऽस्य तानीत्यादिना, ज्ञानदर्शनोपयोगस्वाभाव्यादेव तानि तान्यनिर्दिष्टस्वरूपाणि परिणामेनाध्यवसायस्थानान्तराणिपरिणामाध्यवसायस्थानान्तराणि, परिणामेन न निरन्वयोच्छित्त्या, निरन्वयोच्छित्तौ हि कार्यभावे तत्त्वतोऽसत् सद्भवति, न च सर्वथा असतः शक्तिप्रतिनियमः, ततः कार्यान्तरवत्तदभावप्रसङ्ग इति भावनीयं, अध्यवसायस्थानान्तराणि चानुकम्पादिगर्भाणि मलीमसमध्यमतीव्राणि पारम्पर्येण सद्दर्शनबीजभूतानि बोधरूपाणि गृह्यन्ते, तानि गच्छतःप्राप्नुवतः, किम्भूतस्य सत इत्याह-'अनादी'त्यादि, नास्यादिरस्तीत्यनादिः, अनादिमिथ्यादृष्टिः, अप्राप्तपूर्वसम्यक्त्वलाभ इत्यर्थः, तस्य अनादिमिथ्यादृष्टेरपि, अपिशब्दात् सादिमिथ्यादृष्टेरप्यवाप्तसम्यक्त्वपरित्यागिनः पुनस्तल्लाभे 'सत' इति सवृत्तस्य, क्लिष्टसत्त्वाचरितातिक्रान्तभावस्य, किमित्याह-'परिणामविशेषा'दिति परिणामः-अध्यवसायश्चित्तं, तस्य विशेषः स एव वा, पूर्वं पूर्वं जघन्यमङ्गीकृत्य परः परः शुभो विशेष इत्युच्यते, परिणामविशेषश्चेह यथाप्रवृत्तकरणमभिमतं, ततः परमपूर्वकरणं, अप्राप्तपूर्वं तादृगध्यवसायान्तरं जीवेनेत्यपूर्वकरणमुच्यते ग्रन्थि विदारयतां, ततश्च ग्रन्थिभेदोत्तरकालभाव्यनिवर्तिकरणमासादयति, यतस्तावन्न निवर्तते यावत् सम्यक्त्वं न लब्धमित्यतोऽनिवर्तिकरणं, ग्रन्थान्तरप्रसिद्धत्वाद्भाष्यकारेण अनिवर्त्ति नोपात्तं करणं, अवश्यंतया च सम्यग्दर्शनं