SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ૨૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ सूत्र-3 आदिकर्म न विद्यत एवानादित्वात् कर्मण इत्यर्थः, आह-सर्वं कर्म कृतं तत् कथमनादि मतम् ?, उच्यते, प्रवाहरूपेणातीतकालवत्, तथाहि-यावान् कालोऽतीतस्तेन सर्वेण वर्तमानत्वं प्राप्तम्, अन्यथाऽतीतत्वाभावात्, यथोक्तम्-"भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम् ॥१॥" अथ चासावनादिः, एवं कापि, वर्तमानताकल्पत्वात् कृतकत्वस्येत्यलं प्रसङ्गेन, 'स्वकृतस्येति चानेन कर्मसापेक्षस्यात्मन एव कर्तृत्वमाह, कथमयं स्वतन्त्रः सन्नात्मन एवाहिते प्रवर्तत इति चेत् ?, उच्यते, कर्ममोहितत्वात् व्याधिमोहितवदपथ्य इति, कर्ममोहितः कथमेकान्तेन स्वतन्त्र इति चेत्, नायं दोषः, अनभ्युपगमात्, कर्मसापेक्ष एवायं कर्तेत्युक्तं, न केवलसिद्धस्य, अनभ्युपगमात्, तदेवं कर्मत एव कर्मणः स्वकृतस्य फलमनुभवतः यदपेक्षं तत् फलं तदाह-'बन्धनिकाचनोदयनिर्जरापेक्ष'मिति, तत्र बन्धः कर्मणो योगः, स च प्रकृति (स्थितिरसप्रदेश) भेदभिन्नो वक्ष्यमाणः, निकाचनं तु आत्मप्रदेशैः सह कर्मणः प्रनष्टस्वविभागोऽविशिष्टमेकपिण्डता, तस्यैव कर्मण उदयावलिकाप्रविष्टस्योदयो विपाकः, तस्यैव चोदयानुभवसमनन्तरं परिशाटो निर्जरेति, बन्धादयः कृतद्वन्द्वाः, ताः अपेक्ष्यन्त इति कर्मण्यत्, बन्धनिकाचनोदयनिर्जरापेक्षं, किं तत् ?-फलं, कथं पुनः तत् फलं बन्धाद्यपेक्षं ?, तत उच्यते, यतो बन्धादिष्वसत्सु न तत्सम्भव इति, क्वानुभवत इत्याह-'नरके'त्यादि, नरकतिरश्चोर्योनिः-उत्पत्तिस्थानं, तच्च द्वितीये वक्ष्यति, मनुष्याश्च अमराश्च मनुष्यामरास्तेषां भवः-प्रादुर्भावः, ते भवन्ति यत्र ग्रहणानि आदानादीनि, तच्छरीरग्रहणानीत्यर्थः, तेषु तेषु भवेषु अनादिसंसारात्मसु, विविधमित्यनेकविधं, यतः सातसम्यक्त्वहास्यादिकाः प्रकृतयो विविधास्तासां फलमपि विविधमेवेति, तथा ज्ञानावरणाद्या अपि विविधास्तत्फलमपि विविधमुच्यते, पुण्यमनुग्रहकारि
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy