________________
सूत्र-3 શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૭ तदेतदभिधातुमाह-'ज्ञानदर्शने'त्यादि, यावद् 'येनास्यानुपदेशात् सम्यग्दर्शनमुत्पद्यत' इति, तत्र ज्ञानं च दर्शनं च ज्ञानदर्शने, विशेषाध्यवसायो ज्ञानं सामान्याध्यवसायो दर्शनं, ते एवोपयोगौ, तौ लक्षणं यस्य सः, तथाविधः क इत्याह-जीव इति, एतद् वक्ष्यते-अभिधास्यते 'उपयोगो लक्षण'मित्यत्र सूत्रे (२-८) तस्य जीवस्य, न महदादेः, 'अनादौ संसारे परिभ्रमतः' अविद्यमान आदिरस्येत्यनादिः, सर्वथा असतःसद्भावायोगात्, अतिप्रसङ्गात्, स्वत एव क्षयापत्तेः, तस्मिन्ननादौ, कस्मिन्नित्याह-'संसारे' इति, संसरणं संसारः-नरकादिगमनं इत्यर्थः, इह च गमनमुपलक्षणं नरकादौ स्थितेरपि, ततश्च नरकादिगमनतत्स्थितिरूपः संसार इति, तस्मिन्ननादौ संसारे, अनेन सृष्टिवादव्यवच्छेदमाह, स्रष्टारमन्तरेण तदनुपपत्तेः, सति चास्मिन् स केन सृष्टः ?, तदपराभ्युपगमेऽनवस्था, अनभ्युपगमे तद्वदपरस्यासृष्टिः, रागादिरहितस्य च स्रष्टुः सर्जने सर्गे प्रयोजनाभावः, क्रीडाप्रयोजनाङ्गीकरणे रागादिमत्त्वं, सुखितदुःखितदेवादिकरणेऽस्थानपक्षपातः, तत्स्वभावत्वाभ्युपगमे प्रमाणं न चालाद (न प्रमाणं, न चास्मात्) कस्यचिदुत्पत्तिः, तदभ्युपगमे कर्मप्रेरकत्वे च भक्तिर्वा इत्यलं प्रसङ्गेन, निर्णीतमेतदन्यत्र, तदनादौ संसारे किमित्याह-'परिभ्रमत' इति, सक्रियत्वेनासर्वगतत्वेन च पर्यटत इत्यर्थः, यन्निमित्तमिदं परिभ्रमणं तत् कथयन् प्रक्रान्तोपयोगि च प्रकारान्तरमिदमाह-'कर्मत एव कर्मण स्वकृतस्ये'त्यादि यावत् 'फलमनुभवति' इति, कर्मत एवेति प्रकृतात् ज्ञानावरणीयादेरुदयप्राप्तानिमित्तात् कर्मणः स्वकृतस्येति अन्यस्य ज्ञानावरणीयादेरात्मना निवर्त्तितस्य, अनेनैतदाह-आत्मा ह्यन्यकर्मोदयनिमित्तापेक्षयैवान्यत् कान्तरं करोति, न तु यथा अन्ये मन्यन्ते-आदिकर्म स्वभावत एव, ततोऽन्या कर्मसन्ततिः स्वकृतेति, कुतः ?, सिद्धानामपि कर्मकरणप्रसङ्गात्, स्वभावाविशेषादित्येवं कर्मत एवेति सफलमवधारणं,