________________
૨૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
सूत्र-3
अन्यथा तन्निसर्गाधिगमाभ्यामिति स्यात्, वाशब्दोऽप्यतिरिच्येत, अथ कथं तदेवं व्यपदिश्यते - निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं चेति, अत्राह - 'निसर्गादि' त्यादि, अत्रेतिशब्दस्तस्मादर्थे यत्तदोर्नित्याभिसम्बन्धात्, यस्मान्निसर्गादधिगमाद्वा वक्ष्यमाणरूपादुत्पद्यत एतदिति, तस्माद्यवाङ्कुरादिवत्तेनैव व्यपदिश्यते निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं चेति, अत्राह-यदि मुख्यया वृत्त्या हेतुः प्रतिपाद्यते सूत्रेण तदैवं सति तदेतत् सम्यग्दर्शनं द्विविधमित्ययुक्तं विवरणं, एवं तु स्यात् तस्य सम्यग्दर्शनस्य द्वौ हेतू, यतः सूत्रेणाभिसमीक्षितं तद् द्विविधत्वमिति, एवं पर्यनुयुक्त आह- 'द्विहेतुकं द्विविध' मिति, द्वौ निसर्गाधिगमाख्यौ प्रत्येकासमासकरणज्ञापितौ हेतू यस्य तद् द्विहेतुकं, न तु तन्मुख्यभेदप्रतिपादनया, निर्देशस्वामित्वेत्यादिसूत्रे सम्यग्दर्शन भेदस्याभिधीयमानत्वादिति । आह-सम्यग्दर्शनोत्पत्तौ निसर्गः कारणमभ्युपेयते, स कः किमात्मको वेति ?, अत्रोच्यते - 'निसर्गः परिणाम' इत्यादि, अपूर्वकरणानन्तरभाव्यनिवर्त्तिकरणं निसर्गः, ततस्तत्त्वरुचिभावात्, निसृज्यतेत्यज्यते तत्त्वरुच्याख्यकार्यनिर्वृत्तौ सत्यामिति निसर्गः, उत्पन्ने सम्यग्दर्शने अनिवृत्तिकरणं त्यज्यते, प्रयोजनाभावात् त्यागोऽस्य कारणस्यैव कार्यरूपतया भवनात्, न निरन्वय इति ज्ञापनायाह- 'परिणाम' इति, परिणमनं परिणामः, अनिवर्त्तिकरणवतो जीवस्य कथञ्चित्तत्त्यागेन तत्त्वरुचिरूपतया भवनात्, परिणामश्च प्रयोगविश्रसाभ्यामिति प्रयोगेण घटानां विश्रसाऽध्रेन्द्रधनुरादीनामिति वैश्रसिकख्यापनायाह - 'स्वभाव' इति, स्वेनआत्मनैव तथाभव्यत्वादितो जनितोऽयमनिवर्त्तिरूपो भाव इति स्वभाव इत्युच्यते, स्वो भावः स्वभाव इति नान्येन प्राणिना कृत इत्यर्थः, सर्वोपसंहारमाह-‘अपरोपदेश' मिति, नास्मिन् परोपदेश इत्यपरोपदेश:अनिवर्त्तिरूपो भाव:, इत्येवं व्यवहारतः अनर्थान्तरं, नार्थान्तरवृत्तित्वमेषां शब्दानामित्यर्थः इदानीं यस्येदं निसर्गसम्यग्दर्शनं यथा चैतदवाप्यते
-