________________
श्रीप्रमेयरत्नकोषः ।
[ XX ] [ अथापशब्द निराकरणम् ]
६९
"
येsयमी शाब्दिका अपशब्दजिघृक्षवो लब्धलक्ष्याः समाचक्षीरन् "अपशब्दस्त्वया कृतः” इति, तदेतद्वि चारयामः। किं ध्वनिव्यतिरिक्तोऽयमपशब्दः, आहोस्विद्ध्वनिरेवापशब्दः । यदि तावत् " ध्वनिव्यतिरिक्तोऽयमपशब्दः” इत्ययं पक्षः कक्षीक्रियते, एवं सति यावन्तोऽप्यमी ध्वनिव्यतिरिक्ता रूपादयः सर्व एव ते ध्वनिव्यतिरिक्तत्वादपशब्दतामनुवीरन्, आगम विरोधश्वापद्यते भवतां यतः स्फोटोऽपि ध्वनिव्यतिरिक्त एवेष्यते, तस्यापशब्दता प्रामुयात् । अथ "ध्वनिरेवायमप- 10 शब्दः” इति प्रतिज्ञा; असावपि निष्कृतनासाश्रवणेव नायिका न शोभामादधाति, यतो ध्वनिः शब्द इत्यनर्थान्तरं, लौकिकप्रयोगदर्शनात् । तथाहि । ध्वनिं कुर्वन्नुच्यते शब्दं कुरु मापशब्दं कार्षीरिति तस्मादसत्कल्पनैवासौ त्वयापशब्दः कृत इति । किं च । श्रोत्रेन्द्रियज्ञानावसेयो वा भवेदपशब्दः, 15 चक्षुर्विज्ञानसमधिगम्यो बा । तत्र यद्याद्यः पक्षः, तदा न साधिमानमास्कन्दति, श्रोत्रेन्द्रियज्ञानग्राह्यत्वात्, साधुशब्दवत् । अथ द्वितीयः कल्पः; तदापशब्दव्यपदेशतां नापद्यते, चाक्षुषत्वात्, रूपादिवत् । अथैवमभिदध्युः "लक्ष णानुपपन्नोऽपशब्दः ;” एतदपि स्ववधाय कृत्योपस्थानं 20 यतो यदि लक्षणाभिधानेन जेगीयमानाः शब्दास्त एवो . च्यन्ते, ततः शब्दानां नित्यता प्रलीयते कथम् । यदि नित्याः शब्दाः किं लक्षणेन । अथ लक्षणं, न तर्हि नित्याः । अथैवमामनन्ति नैयायिकाः । “अर्थप्रतिपादकाः साधव इत्यपशब्देन च नास्वर्थो गम्यत इत्येवमपि न दोषः 125 योऽपि "गौः" इत्याह सोऽपि लाङ्गूलखुरककुद विषाणादिमन्तं गोपिण्डं प्रत्याययति । योऽपि “गवि" इत्याह, सोऽपि
I
1
1 A व्यपदेशतो