________________
श्रीप्रमेयरत्नकोषः। तमर्थ, न च "गवि" इत्युक्ते वडवा प्रतीयते करेणुवा'। एतत्त्वयुक्तम् । “अर्थप्रतिपादकाः साधवः" इति समर्थ, न च “गवि" इत्युक्ते वडवा प्रतीयते” इति स्थितमतेत् "नास्त्यपशब्दः;" तदुत्पादककारणाभावात् कार्यस्याप्य5 भाव इति निश्चीयते । अथैवमाहुर्वैयाकरणाः। यान्येवाप
शब्दस्योत्पादककारणानि, तान्येव साधुशब्दस्यापि । अयमपि परिहारसंबन्धोऽसंबन्धधतामात्मनःप्रदर्शयति। किं कारणानि । यतो भिन्नानि कार्याणि भिन्नेभ्यो कारणेभ्यो दृश्यन्ते । तस्माच्छन्दापशब्दयोरेकं कारणं नोपपद्यत इति 10 स्थितमेतत् , अन्यथा ह्येकस्माच्छालिबीजात्सर्वसस्योत्पत्तिः स्यात् । न चैतदृष्टमिष्टं वा । तस्मादयुक्तमुक्तं “यान्येव शब्दस्योत्पादककारणानि तान्येवापशब्दस्यापि" इति। अथ ते व्याकरणविदो वदन्ति । “योऽयमपशब्दनिराकरणोपायोपन्यासो भवद्भिरङ्गीकृतः, नानेनायमपशब्दो निराकर्तु 15 शक्यते । किं कारणम् । यतः शब्द एवावस्थान्तरगतो
ऽपशब्द इत्युच्यते यथा वत्स एवावस्थान्तरगतो वृषभादिव्यपदेशमापद्यते”। अयमप्यसारः, यतस्ते वैयाकरणा नित्याः शब्दा नित्योऽर्थो नित्यः संबन्ध इत्याचक्षते नित्येषु नाम शब्देषु कूटस्थैरविगलद्भिर्वर्णैर्भवितव्यम् । कथमव20 स्थान्तरप्राप्त्या शब्दोऽभिसंबध्यत इत्याह दुर्मेधसां वो बोध इत्यपशब्दनिराकरणम् ॥ २० ॥
[XXI ]
[अथ पचतिवादः] इह हि प्रथमं तावल्लक्षणे विचारयामः, तदुत्तरकालं 25 प्रमाणे । यो हि तल्लक्षणं न वेत्ति कथं तस्य तर्काधिकारः । तत्र लक्षणमेव विचार्यते । लक्षणं चाख्यातम् । आख्यातं च क्रियाप्रधानम् । क्रिया च "पचति" इत्यादिरूपा । तत्र
1 A omits 2 A Comit प्रधानम्