________________
श्रीप्रमेयरत्नकोषः। षाभावात् । अवान्तरकल्पने चानवस्था स्यात् । किं च । सामान्यं किमनुत्पन्ने पिण्डे वर्तते, उत्पन्ने वा, उत्पद्यमाने वेति विकल्पाः । न तावदनुत्पन्ने, तदा पिण्डस्यासत्त्वात् । नाप्युत्पन्ने, अगोरूपेऽश्वपिण्ड इव तत्र तस्य वृत्त्ययोगात् । 5 नाप्युत्पद्यमाने, अनिष्पन्नस्याधारत्वायोगात् । किं च । उत्पद्यमानेन पिण्डेन सह सामान्य संबध्यमानं किमन्यत आगत्य संबध्यते, आहोस्वित्पिण्डोत्पत्तेः प्रागेव तद्देशावस्थानात्, उत पिण्डेन सहोत्पादात्। तत्र न तावदन्यत आगत्य संबध्यत इति पक्ष आश्रयितुंयुक्तः, यतःप्राक्तनपिण्डप10रित्यागेन तत्तत्रागच्छति, उतापरित्यागेनेति वाच्यम् । यदि
“परित्यागेन” इति पक्षः, स न युक्तः,प्राक्तनपिण्डस्य गोत्वपरित्यक्तस्यागोरूपताप्रसक्तेः। अथापरित्यागेन, तदापरित्यक्तप्राक्तनपिण्डस्य निरंशस्य रूपादेरिवागमनासंभवः । न
च “प्राकनाधारपरित्यागेऽप्याधारान्तरसंक्रमः सर्पादेरिव 15 सामान्यस्य भविष्यति" इति वक्तव्यं, सामान्यस्यामूर्तत्वा
भ्युपगमात्, अमूर्तस्य च रूपादिवद्गमनासंभवात् । न च सर्पवत्पूर्वाधारापरित्यागेनाधारान्तरकोडीकरणे सामान्य रूपता सदेशस्य घटवत्, सामान्यरूपतानुपपत्तेः । न च
"पिण्डोत्पत्तेः प्राक् तत्र देशे तस्यावस्थानादुत्पद्यमाने 20 पिण्डे वृत्तिः” इत्यभ्युपगमोऽपि युक्तः, निराधारस्य सामान्यस्य तत्रावस्थानासंभवात् , अवस्थाने वाकाशवत्सामान्यरूपताविरहात् । न च "पिण्डेनैव सह समुत्पद्यते” इति पक्षप्रकल्पनापि संगता, उत्पत्तिमत्त्वेन तस्यानित्यताप्रसक्तः,
अनित्यस्य च ज्वालादिवत्सामान्यरूपतायोगात् । न च 25 शाबलेयादिपिण्डस्य सामान्यसंबन्धविकल्पस्यैव परेणावस्थानमभ्युपगतम् । ततः सामान्यकल्पनानेकदोषदुष्टत्वादसंगतैवेति स्थितम् ॥ सामान्यनिराकरणवादः ॥ १९ ॥ 1 A omits सामान्यस्य भविष्यति" इति सदेशस्य घटवत् .