________________
श्रीप्रमेयरत्नकोषः। त्वात् । अपि नाम भावाः स्वयं न भवेयुः। न पुनर्मार्यमाणा अपि स्वं स्वभावं परित्यज्य स्वभावान्तरमुररीकुर्युः। नापि विनश्वरस्वभावानां, यतो ये विनश्वरस्वभावास्तेषां स्वहेतुकलापादेव तथाभूतानां समुद्भूतत्वाद्विनाशहेतुभिः किं कर्तव्यम् । तस्मान्न सहेतुकविनाशबलात्कियत्कालाव- 5 स्थायित्वं, भावानां क्षणिकत्वप्रसाधकानुमानसद्भावात् । तथाहि । यद्यथा प्रतिभासते तत्तथैवाङ्गीकर्तव्यं', यथा निर्दोषनयनप्रभवदर्शने प्रतिभासमानं नीलं नीलरूपतया चकास्ति क्षणिकत्वाध्यासिताः सर्वार्थमात्रा इत्यमुतोऽनुमानाद्भावानां क्षणिकत्वं, तस्मिंश्च क्षणिकत्वे न स्वलक्षणस्य 10 वाच्यत्वं नापि सामान्यस्य, तस्याविद्यमानत्वात् । यद्यपि च प्रत्यक्षादिप्रमाणेन तत्सत्त्वं व्यवस्थापितं, तथापि तस्य वृत्त्यादिविकल्पैर्वाध्यमानत्वादिति नास्ति शब्दार्थयोर्वाच्यवाचकलक्षणः संबन्ध इति स्थितम् ॥१८॥
. [XIX.]........ [अथ सामान्यनिराकरणम् ] इह हि नैयायिकमीमांसकादयो नित्यं व्यापकं गोत्वादिसामान्यमुपगच्छन्ति । तच्च न प्रेक्षाक्षुण्णमानसैविचार्यमाणं सत्तामासादयति । तथाहि । तदभ्युपगम्यमानं सप्रमाणकमभ्युपगम्यते, निःप्रमाणकं वा । यदि निःप्रमाणक-20 मिति पक्षः, स न युक्तः, प्रमाणमन्तरेण व्यवस्थाया अभावात्, अन्यथा खरविषाणवन्ध्यास्तनन्धयादयोऽपि सध्यवहतिपथमवतरेयुः । अथ "सप्रमाणकं" इति पक्षः सोऽपि न युक्तः, यतस्तद्राहकं प्रमाणं प्रत्यक्षं वा भवेत्, अनुमानं घा, प्रत्यक्षमपि निर्विकल्पक, सविकल्पकं वा । तत्र यदि 25 "निर्विकल्प" इति पक्षः, स न संगतः शाबलेयादिव्यतिरेकेण सामान्यस्यानुगताकारस्यापरस्याक्षजप्रत्यये प्रति1 A omits तस्मान सहेतुकविनाश तत्तथैवाङ्गीकर्तव्यं 2A omits अपरस्य
15