________________
श्रीप्रमेयरनकोषः। "अप्रतिपन्नघटस्य घटोऽयं" इति ज्ञानवत् । तस्मात्प्रत्यक्षेण सामान्यं प्रतीयते । अनुमानतोऽपि, तत्पूर्वकत्वात्तस्य । न चेदं ज्ञानं निर्हेतुकं, कादाचित्कत्वात् । नापि तत्पिण्डमात्रनिबन्धनं, पिण्डानां व्यावृत्तत्वात् । यदि चेदं पिण्ड5 मात्रनिबन्धनं स्यात्, तदानीं कर्कादिष्वपि गौगौरित्युल्ले
खेनोत्पद्यते, पिण्डरूपतायास्तेष्वप्यविशेषात् । न च “वाहदोहाद्यर्थक्रियानिबन्धनोऽयं” इति वाच्यं, तदभावेऽपि वत्सादौ गोबुद्धिप्रवृत्तेः,महिष्यादौ तत्सद्भावेऽपि चाप्रवृत्तेः।
न च बाधितोऽयं प्रत्ययः, सर्वत्र सर्वप्रमाणामनुगता10 कारस्योपलब्धेः । नापि दुष्टकारणप्रभवः, काचकामलाद्य
शेषचाक्षुषदोषानुपप्लुतविशालपक्ष्मलधवललोललोचनोत्पलयुगलशालिनामप्यनुस्यूताकारस्य प्रभासनात्। तस्मादनुगतप्रत्ययनिमित्तत्वात्सामान्यस्य सद्भावः सिद्धः, तत्सिद्धौ च सामान्यस्वलक्षणयोर्वाच्यत्वं शब्दस्य च वाचकत्वमिति 15 स्फुट एव शब्दार्थयोर्वाचयवाचकलक्षणसंबन्धो जाघटीति कथं नासिद्धत्वं हेतोरिति ॥ १७ ॥
__ [XVIII] [अथ वाच्यवाचकसंबन्धखण्डनम् ]
अत्रोत्तरयामः । यत्तावदुक्तं "सहेतुकविनाशबलाद्धटा20 दीनां कियत्कालावस्थायित्वं," तदसमीचीनं, विनाशहेतोरपि विचार्यमाणस्यासंभवात् । तथाहि । विनाशहेतुभिर्विनाशो विधीयमानो ऽविनश्वरस्वभावानां भावानां विधीयते, विनश्वरस्वभावानां वेति भागीरथीविपुलपुलिनावतरच्चक्रवाकद्वयमिव विकल्पयुगलममलमवतारमाचरयति । 25 तत्र न तावदविनश्वरस्वभावानां, यतो येऽविनश्वरस्वभा
वास्तेषां विनश्वरस्वभावत्वस्य पुरंदरशतैरपि कर्तुमशक्य
1 A omits तत् 2 A वा. 3 A रमारचयति