________________
श्रीप्रमेयरनकोषः। पेणाभ्युपगन्तव्या; तस्यां स्वरूपसिद्धायां सामान्येन किं कर्तव्यमिति प्रतिबन्धासिद्धे सिद्धत्वम्।नाप्यनैकान्तिकत्वं, यतो यदिप्रतिबन्धमन्तरेणापि गमकत्वं भवेत, तदा स्यादनकान्तिकत्वम्। तच्च न, अतिप्रसङ्गात्। तथाहि । प्रतिबन्धमन्तरेणापि गमकत्वं यत्किंचिद्यतः कुतश्चिद्गम्यते । न चैवम्। 5 तन्नानैकान्तिकत्वम् । नापि विरुद्धत्व, सपक्ष एव भावात् ॥ स्वपक्षे प्रतिष्ठी कुर्वद्भिः सद्भिरस्माभिरिदमुदीर्यते। यत्तावत् "शब्दो ऽर्थस्य गमको न भवति" इति साध्ये “यद्येन" इत्यनुमानमुपन्यस्तं, तत्राप्रतिबद्धस्वभावत्वलक्षणो हेतुरसिद्धः । तथाहि । शब्दोऽर्थप्रणयनार्थ प्रयुज्यते, उच्चरि-10 ताच शब्दादर्थप्रतीतिरुपलभ्यते । सा च संबन्धनिबन्धना वक्तव्या । अन्यथा, यतः कुतश्चिच्छब्दाद्यस्य कस्यचिदर्थस्य प्रतीतिः स्यात् , न नियतान्नियतस्य, तस्मात्संबन्धोऽङ्गीकर्तव्यः, स च वाच्यवाचकभावलक्षण एव, संबन्धत्रयस्य यथोक्तदूषणाघ्रातत्वात् । यच्चाभिहितं “अर्थस्वल-15 क्षणं क्षणिकत्वाद्वाच्यं न संभवति" इति, तदसंगतं, सहेतुकानां घटादीनां मुद्गरादिव्यापारानन्तरं विनाशोपलब्धेः कियत्कालावस्थायित्वस्य व्यवस्थापितत्वात् । इतरथोत्पादानन्तरमेव विनाशे जगच्छून्यं स्यात्, निर्हेतुकानां च व्योमा. दीनां सर्वदाविद्यमानत्वात्स्वलक्षणस्य वाच्यत्वम् ।20 यच्चोक्तं “सामान्यं प्रमाणगोचरातिक्रान्तत्वाद्वाच्यं न संभवति" इति, तन्न, यतः शब्दोल्लेखशून्येऽपि निर्विकल्पकेऽनुगतं रूपं प्रतिभासते कथम् । अन्यथा दाक्षिणात्यस्याविज्ञातेऽपि वाचक उष्ट्रपरंपरां पश्यतोऽनुगतरूपप्रतिपत्तिः स्यात् । तथा सविकल्पेऽपि सामान्यं प्रतिभासते। तथाहि । 25 "अनयोः सादृश्यमेषां सारूप्यं," “सोऽनेन सदृशः" इत्यादि सविकल्पकं ज्ञानमप्रतिपन्नसामान्यस्य नोपपद्यते,
.1 A खपक्षप्रति..
................