________________
श्रीप्रमेयरनकोषः । नापि पररूपे, यतः पररूपानुगमः किं तादात्म्यं, तत्समवायो वा । न तावत्तादात्म्यं, व्यतिरेकाङ्गीकारात् । नापि समवायः, सामान्यस्य समवायादत्यन्तव्यतिरिक्तत्वेनाभ्यु. पगमात् । अथ प्रमाणान्तरं सामान्यसाधकं विद्यते । 5 ततो वाच्यरूपता भविष्यति । तथाहि । यदबाधितबोधगोचरचारि तत्समस्तं समस्ति, यथा स्तम्भेभकुम्भादिकदम्बकम् । अबाधितबोधगोचरचारि च सामान्यमिति, अस्य सामान्यसाधकस्य हेतोर्विद्यमानत्वात्कथं नास्ति सामान्यम्।
इदमप्ययुक्तं, अस्य हेतोवृत्त्यादिविकल्पैर्बाध्यमानत्वात् । 10 तथाहि । तत्सामान्यं तासु व्यक्तिष्वेकदेशेन वा वर्तते,
सामस्त्येन वा; एकदेशेनापि किं येनैवांशेनैकस्यां व्यक्ती वर्तते तेनैव द्वितीयस्यामपि, अंशान्तरेण वा । यदि तेनैव, तदैकांशेन सर्वव्यक्तीनां व्याप्तत्वात्पिण्डरूपता । अथांशान्तरेण; तदा खण्डीभूतत्वात्सामान्यस्य निःसामान्यापत्तिः। 15 अथ सामस्त्येन; तदैकस्यामेव व्यक्तौ परिनिष्ठितत्वाव्य
त्यन्तराणि सामान्यशून्यानि प्रामुवन्ति । तथा तत्सामान्यमसमानरूपासु व्यक्तिषु वर्तते, समानरूपासु वा । यद्यसमानरूपासु, तर्हि गोत्वसामान्यं यथा गोषु वर्तते, तथा
महिष्यादिष्वपि वर्तेत, विशेषाभावात् । अथ समानरू20 पासु; तदा किं तासांसामान्यरूपता स्वरूपेण, सामान्येन
वा । यदि स्वरूपेण, तदा सामान्येन किं कर्तव्यम् । अथ सामान्येन क्रियते; किं तेनैव, सामान्यान्तरेण वा । यदि तेनैव, तदा स्फुट एवेतरेतराश्रयदोषः । अथ सामान्या
न्तरेणे; तदा तदपि तासु समानरूपास्वसमानरूपासु वेत्याद्य25 नुवर्तनयानवस्थागच्छतीति तद्भयात्तावत्समानरूपता स्वरू
1 A न तावादत्तात्म्यानव्यतिरे का० 2 A omits तदा स्फुट एवेतरेतराश्रयदोषः । अथ सामान्यान्तरेण .