________________
श्रीप्रमेयरत्नकोषः । यतस्तस्य प्रथमे क्षणे निरीक्षणं, द्वितीये तदध्यवसायः, तृतीये यावच्छब्देन वक्तुमारभ्यते तावत्तस्य क्षणक्षयित्वेन विनष्टत्वात्कथं वाच्यरूपता । नापि सामान्यं, तस्याविद्यमानत्वात् । तथाहि । यत्प्रमाणगोचरचारितां नाचरति न तत्सद्व्यवहृतिपथमवतरति, यथा व्योमारविन्दम् ।। नाचरति च प्रमाणगोचरचारितां सामान्यम् । न चायमसिद्धो हेतुः । तथाहि । तत्सामान्यं प्रत्यक्षप्रमाणपरिच्छेद्यं वा स्यात्, अनुमानसंवित्संवेद्यं वा । न तावदाद्यः पक्षः, यतः प्रत्यक्षस्य पुरोवर्तिव्यक्तिजन्मता,सामान्यस्य सकलत्रैलोक्योदरविवरवर्तिव्यक्तिव्याप्यस्वरूपता तथाभूतस्य प्रत्य-10 क्षेण कथमीक्षणं; तदीक्षणेन सर्वज्ञतापत्तिः। तथा तत्सामान्य व्यक्तिभ्यो भिन्नं, अभिन्नं वा । यद्यभिन्नं, तदा किं तासु व्यक्तित्पद्यमानासूत्पद्यते. व्यत्यन्तराद्वा गच्छति व्यक्तिशून्य एव वा देशेऽवतिष्ठते । तथा चोक्तम् । व्यक्तिजन्मन्यजाता चेदागता नाश्रयान्तरात् । 15 तच्छ्न्ये न स्थिता देशे सा तया संगता कथम् ॥१॥ व्यक्तिनाशे न चेन्नष्टा गता व्यक्त्यन्तरं न च । तच्छ्न्ये न स्थिता देशे सा जातिः केति कथ्यताम्॥२॥ तत्र यदि व्यक्या सह जन्मेष्यते, तदा नित्यत्वाभ्युपगमक्षतिः । द्वितीयपक्षे तु सक्रियत्वेन निष्क्रियत्वाभ्युप-20 गमो विरुध्यते । तृतीयपक्षस्तु, सदैव व्यत्याधारत्वाभ्युपगमान्न संभवति । तथा विनाशविकल्पा अप्यनेनैव युक्तिकलापेन निरस्तावतारा द्रष्टव्याः। अथ भिन्नं सामान्यमनुगताकारं वा स्यात् , व्यावृत्ताकारं वा । यदि व्यावत्ताकारं, तदा व्यक्तिरूपस्यैव व्यावृत्तत्वाव्यक्तिस्वभावतैव 25 तस्य न सामान्यरूपता । अथानुगताकारं तदा सोऽनुगमः स्वरूपे, पररूपे वा । न तावत्स्वरूपे, तत्रानुगमाभावात् । न हि सुशिक्षितोऽपि बटुः स्वं स्कन्धमधिरोढुं समर्थः ।