________________
श्रीप्रमेयरत्तकोषः ।
"
साधारस्थितिस्ततः स्थास्याद्भिन्ना क्रियते, अभिन्ना वा । यद्यभिन्ना, तदा स्थापयमेव कृतं तच्च स्वकारणकलापादेव सिद्धं; किं तत्राधारेण क्रियते । अथ भिन्ना; तदाधेयस्य न किंचित्कृतं स्यात् । अथ तत्संबन्धिनी स्थितिर्जन्यते; 5 ननु तत्संबन्धो जन्यजनकलक्षणः, आधाराधेयलक्षणो वा । तत्र यदि जन्यजनकलक्षणः, तदाधारेण भिन्ना स्थितिर्जन्यते; आधेयस्य किमायातम् । अथाधाराधेयलक्षणः; तर्ह्यधारः किं स्थितिकारणादविनाशकरणाद्वेति पुनस्तदे - वानुवर्तते । नाप्यविनाशकरणात्, अविनाशो हि विनश्व10 रस्वभावानां भावानां, अविनश्वरभावानां वा । न तावदविनश्वरस्वभावानां यतो येऽविनश्वरस्वभावा भावास्तेपामविनश्वरत्वं स्वकारणकलापादेव सिद्धं, किं तत्राधारेण क्रियते । अथ विनश्वरस्वभावाः; तदप्ययुक्तं, यतो ये विनश्वरस्वभावा भावास्तेषां विनश्वरतायाः पुरंदरशतैर15 प्यन्यथाकर्तुमशक्यत्वात् । अपि नाम भावाः स्वयं न भवेयुः । न पुनर्भार्यमाणा अपि स्वं स्वभावं परित्यज्यास्वं स्वभावं स्वीकुर्युः । नापि समवायलक्षणः, तस्याविद्यमानत्वात् । तथाहि । समवायोऽपृथग्भूतानां भावानामुपव
"
ते । सा चापृथक्सिद्धिः किं देशैकत्वं कालैकत्वं स्वरू20 पैकत्वं वेति विकल्पाः । न तावद्देशैकत्वं यतः पटस्य देशास्तन्तवस्तन्तूनां स्वांशाः । अतः कथं देशैकत्वम् । अथैकाकाशदेशावस्थितत्वा देशैकत्वमेकदेशत्वमुच्यते; सर्वपदार्थानामेकाकाशदेशावस्थितत्वादेकत्वापत्तिः । नापि कालैकत्वं, तन्तुकाले पटस्याविद्यमानत्वात् । नापि स्वभा25 वैकत्वं यतः स्वभावैकत्व एकमेव वस्तु स्यादिति न कश्चित्समवायः । नापि वाच्यवाचकभावः, यतो वाच्यं किमर्थस्वलर्क्षेणं, अर्थसामान्यं वा द्वयी गतिः । न तावत्स्वलक्षणं,
"
2 B C omit the whole sentnce
६०
1 Aomits साधार3 B C omit भावासू 4 BC खभावलक्षणं