________________
श्रीप्रमेयरनकोषः। भासाभावात् । न ह्यध्यक्षव्यापारेण शाबलेयादिषु व्यवस्थितं कण्ठे गुण इव भिन्नमनुगताकारं सामान्य केनचिलक्ष्यते । अथ “सविकल्पकं तद्राहक" इति पक्षः सोऽप्ययुक्तः। गौौरिति विकल्पज्ञानेनापि त एव समानाकाराः 5 शाबलेयादयो बहिर्व्यवस्थिता अवसीयन्ते । अन्तश्च शब्दोल्लेखो न पुनस्तद्भिन्नमपरं गोत्वम् । अथ “अनुमान" इति पक्षः कक्षीक्रियते; सोऽपि न चारुत्वमवलम्बते, यतस्तद्राहकमनुमानमभ्युपगम्यमानं किंस्वरूपमिति वक्तव्यम् ।
अथ किमत्रोच्यते । विद्यत एव सकललोकप्रसिद्धमनुमानं 10 तद्राहकम् । तथाहि । व्यावृत्तेषु खण्डमुण्डशाबलेयादिष्व
नुगताकारस्तद्व्यतिरिकानुगतनिमित्तनिबन्धनो व्यावृत्तेष्वनुगताकारप्रत्ययत्वात् । यो यो व्यावृत्तेष्वनुगताकारप्रत्ययः स स तद्व्यतिरिक्तानुगतनिबन्धनः, यथा चर्मचीरकम्बलेषु
नीलमिति प्रत्ययः । तथा चायं शाबलेयादिषु गौौरिति 15 प्रत्ययः । तस्मात्तव्यतिरिक्तानुगतनिमित्तनिबन्धनं इति
नैतत्साधीयः, सामान्यस्यानुगतप्रत्ययहेतुत्वेन प्रमाणतो निर्णयाभावात् । तथाहि । अनुगताकारस्य ज्ञानस्य निर्निमित्तस्यासंभवाकेनचिन्निमित्तेन भाव्यमित्येतावन्मानं तिष्ठति । तच्च सामान्यमन्यद्वा न निश्चेतुं शक्यते । किं च । 20 कार्यान्वयव्यतिरेकाकाराभ्यां कारणस्यावधारणं, पिण्डानां
च विशेषप्रत्ययोत्पत्तौ ताभ्यां सामर्थ्य सिद्धम् । ततोऽनुगतप्रत्ययेऽपि तेषामेव सामर्थ्य परिकल्पनं, न सामान्यस्य, तस्य क्वचिदपि सामर्थ्यानवधारणात् । तथाहि । पिण्डस
भावेऽनुगताकारमुपलभ्यते तदभावे नेति वरमध्यक्षप्रत्यया25 वसेयानां तेषामेव तन्निमित्तता कल्पनीया । न चैतद्वक्तव्यं
"पिण्डानामवशिष्टत्वात्प्रतिनियमो न स्यादनुगतप्रत्ययोत्पत्तौ" इति, यतो यथा सदादिरूपतयाविशेषेऽपि तन्तू.
1 A omits तत् 2 B omits आकार ...
.